SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ कं. ६] वेदिष्टकावर्द्धनप्रकरणम् । ४५ एवमेकशतविधे प्रक्रमप्रमाण मुक्त्वा द्वितीये चयने प्रक्रमप्रमाण माहद्वितीये वा सप्तषु प्रक्रमेषु प्रक्रममवधाय तस्य सप्तम भागेन प्रक्रमार्थः ॥ ३ ॥ द्वितीयेऽष्टविधेऽग्नौ सप्तसु प्रक्रमेषु प्रक्रमपरिमितकरण्या निर्मितेषु सप्तसु समचतुरस्त्रेषु एकं प्रक्रमम् = एकप्रकमक्षेत्रफल मवधाय प्रक्षिप्य समस्य समचतुरस्त्रीकृत्य तारशस्य प्रक्र. मस्य सप्तमभागेन प्रक्रमार्थः कार्यः। अर्थात् तस्य समचतुरस्त्रस्य सप्तमभागेन सप्तमांशेन अतिदीर्घचतुरस्रेण यत्समचतुरस्त्रं स प्रक्रमः । अर्थात् तस्य क्षेत्रस्य करणीरज्जुद्धितीयेऽष्टविधेऽग्नौ प्रक्रमो बोध्यः (२) । तेनेदं फलितम् । आद्येऽग्नी यस्त्रिपदः प्रक्रमः, तत्र तस्यैव प्रकमस्य सप्तमांशवर्द्धनेन द्वितीयस्याग्नेः प्रक्रमः । एवं द्विगुणितप्रक्रमसप्तमांशवर्द्धनेन नवविधेऽग्नौ प्रक्रमः । एवं व्यादिगुणितसप्तमांशवर्द्धनेनैव दशविधाद्यग्नो प्रक्रमो बोध्य इति (२) ॥ ३ ॥ एवं द्वितीये चयने प्रक्रमवर्द्धनमुकत्वा पुनरपि तदर्थ प्रकारान्तरमाह प्रक्रमेण वा ससप्तमभागेन प्रक्रमार्थः ॥४॥ पिताभिरेकः पुरुषः। एवंविधेन पुरुषेण द्विपुरुषां रज्जु मित्वेत्यादिकल्पोक्त विधिनाऽऽत्मपक्षपुच्छादिकं साध्यम् । एवं विधाभिस्तिसृभिः पदयाभिः पूर्वापरस्था पिताभिरेकः प्रक्रम इति। (१) महीधरः । “अयमर्थः-त्रिपदप्रक्रमक्षेत्रं सप्तधा विभज्य स्वसप्तभागं चतुरस्रोकृत्य प्रक्रमक्षेत्रे आवपेत् नानाप्रमाणसमासविधिना । ततः सप्तमांशाधिकप्रक्रमक्षेत्रकरण्या द्वितीयचयने प्रक्रमकार्य कर्तव्यम् । नवविधे तृतीये चयने प्रक्रमक्षेत्रस्य द्वौ सप्तमभागौ प्रक्रमक्षेत्रमध्ये प्रक्षेप्यो, चतुर्थे त्रयः, पञ्च मे चत्वारः, षष्ठे पञ्च, सप्तमे षट् , अष्टमे चयने प्रक्रमक्षेत्रद्विकरण्या समचतुरस्रं कृत्वा तस्य सप्तमो भागःप्रक्रमक्षेत्रमध्ये आवपनीयः। चतुर्थे द्विकरण्या साधितस्य सप्तमो भागः, पञ्चमे चतुःकरण्या साधितस्य सप्तमो भागः, षष्ठे पञ्च करण्या साधितस्य सप्तमो भागः, सप्तमे षष्ठकरण्या साधितस्य सप्तमो भाग इत्यादि। (२) अयमर्थः-त्रिपदप्रक्रमप्रमाणानि सप्त समचतुरस्राणि समस्यैकं समचतुरस्रं कृत्वा तत्र त्रिपदप्रक्रमचतुरस्रनावपेत् । ततस्तस्य वर्द्धितक्षेत्रस्य यः सप्तमो भागः, तं समचतुरस्रीकृय तत्करण्या प्रक्रमकार्य द्वितीये चपने विधेयम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034615
Book TitleShulb Sutram
Original Sutra AuthorN/A
AuthorKatyayan Maharshi
PublisherAchyut Granthmala
Publication Year1929
Total Pages70
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy