SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ कं. १] परिभाषाप्रकरणम् । ११ हिते (१) द्वादशप्रक्रमव्यवहिते वा देशे श्राहवनीयमध्यं कल्पयेत् । श्रहवनीयश्च चतुर्विंशत्यङ्गुलसमचतुरस्रः । एवमन्यायतनद्वयमुक्त्वा पश्चादिदमुक्तम् "इतरस्य वितृतीये दक्षिणतः " ( का.श्रौ. ४।८।१८ ) इति । इतरस्य दक्षिणाग्नेः स्थानं गार्हपत्यस्य पुरस्ताद् वितृतीये दक्षि गतः कर्तव्यमिति तदर्थः । तं वितृतीयार्थं विविच्य वक्ष्यामः ॥ २६ ॥ प्रतिज्ञातमाह गार्हपत्याहवनीययोरन्तरठ० पढ्ढा सप्तधा वाऽऽगन्तुसमं त्रेधा विभज्यापर वितृतीयलक्षणेन दक्षिणाऽऽयम्य तस्मिन्नग्निः || २७ ॥ गार्हपत्यश्चाहवनीयश्च गार्हपत्याहवनीयौ । तयोरन्तरम् - अन्तरालम्, तच्च श्रष्टौ, एकादश द्वादश वा प्रक्रमाः । ( प्रक्रमो द्वादशाङ्गुलः ) तदन्तरालं क्रमेण चतुः पञ्च षढस्तात्मकम्, तन्मितां रज्जुमादाय, तां च षड्धा सप्तधा वा कृत्वा, उभयत्रापि आगन्तुसमम् = श्रागन्तुना - वर्द्धितभागेन समं = सह यथा तथा, अर्थात् षड्धापक्षे षष्ठं भागं विवर्ध्य, सप्तधापक्षे सप्तमं भागं विवर्द्ध्वं वर्द्धितभागसहितां तां मध्यरज्जुं त्रेधा विभज्य = त्रिभागां कृत्वा, तत्र तृतीये तृतीये भागे चिहं कृत्वा अपरवितृतीयलक्षणेन = श्रपरे पश्चिमे भागे तृतीये यत् लक्षणं चिन्हं तद् धृत्वा, रज्जुप्रान्तपाशौ गार्हपत्याहवनीयमध्यस्थितशङ्कोर्निधायापरवितृतीयचिन्हं दक्षिणा = दक्षिणस्यां दिश्याकृष्य = तस्मिन्ननिः, श्रकृष्टतृतीयभागचिन्ह स्पृष्टे भूभागे दक्षिणाग्निः, दक्षिणाग्नर्मध्यशङ्करित्यर्थः ॥ २७ ॥ उत्करस्थानमाह विपर्यस्योत्तरत उत्करः ।। २८ ।। विपर्यासः पाशयोः, उत्तरत श्राकर्षः । तेनायमर्थः । विपर्यस्य = बोढ़ा सप्तधा वा विभक्तागन्तुभागसहितवर्द्धित त्रिभाग चिन्हितरज्जुपाशौ विपरीतौ कृत्वा पूर्वतृतीयभागचिन्हमुदगाकृष्य गहपत्याह ( १ ) प्रक्रमो द्वादशाङ्गुलः ल: " आधाने पदिकं कुर्यात्सोमे तु द्विपदो भवेत् । अग्नौ तु त्रिपदं कुर्यात् प्रक्रमं याज्ञिको बुधः ।” (श्लो० शु० ३४ ) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034615
Book TitleShulb Sutram
Original Sutra AuthorN/A
AuthorKatyayan Maharshi
PublisherAchyut Granthmala
Publication Year1929
Total Pages70
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy