________________
[ २ ] सूत्रकारेण समानातम् । तेषां ये विशेषा अवश्यनिरूपणीया आसन् , यथा-अग्न्याधाने गार्हपत्याहवनीययो स्थानं निरूप्य विततीये दक्षिणाग्ने स्थानमुक्तम् । वितृतीयस्वरूपं तु न तत्र स्पष्टीकृतम् । एवं चातुर्मास्येषु रथ युग-शम्याप्रमाणानि वेदेर्विकल्पनाम्नातानि; रथादीनां स्वरूपं न तत्र निरूपितम् । तथा चयने सुपर्णचितेः स्वरूपं सुस्पष्टतया निरूपितम् , द्रोणचिदादीनां नाना परमुपादानं कृतम् , तेषां स्वरूपादिकं न तत्र स्पष्टमपि । एवं चयनादिषु विवृद्धौ केनो. पायेन कियता प्रमाणेन कियत्या च सङ्ख्यया इष्टकादयो वर्द्ध नीयाः, तदनुसारेण वा विवृद्धिः कथं सम्पादनीया, इत्या. दिकं तत्र तत्र सूत्रकारेण न निरूपितम् , ते च विशेषा अनिरूपिता अज्ञाताश्च उत्तरकतुषु अनुष्ठाने वैकल्यमापादयन्ति इति तेषामपि निरूपणमवश्यमापतितमिति मन्वानेन सूत्रकारणायं श्रौतसूत्रपरिशिष्टरूपो ग्रन्थो निरमायि। अनेनाऽपि अनिरूपिताः केचनावशिष्टाः पदार्थाः समपीपदन् , तामपि त्रुटिं पूरयितुमेतद्ग्रन्थान्ते काश्चन कारिकाः सूत्रकारेण रचिताः, यासां नाम श्लोकशुल्बमिति, यासु कारिकासु तत्र तत्र वेदिनिर्माणार्थं निखातस्य शङ्कोः प्रमाणं प्रक्रमस्याङ्गलादे. मुद्रादीनां च परिमाणं सुस्पष्टमुपवर्णितम् । एवं श्रौतसूत्रापेक्षित. पदार्थसमर्पकोऽयं ग्रन्थस्तत्र ज्ञानविशेष सम्पिपादयिषुभिरवश्य मध्येतव्य इति मत्वाऽस्थापि मुद्रणं कृतम् ।
बौधायनापस्तम्बाभ्यामपि शुल्बसूत्रमारचितम् । आपस्तम्बमहर्षिकृतं शुल्बसूत्रं प्रायशो बहुत्राक्षरशः संवदत्यनेन सूत्रेण। तस्य च व्याख्यात्रयमुपलभ्यते। एकं कपर्दिस्वामिकृतं भाष्यम्, अन्यत् करविन्दस्वामिकृतम् , अपरं च सुन्दरराजकृतम्। बौधायनीय. शुल्बसूत्रं द्वारिकानाथयज्वकृतव्याख्यया युतं पण्डितपत्रे मुद्रितम्। इतरे च सूत्रकाराः शुल्बसूत्राण्यरीरचन्न वा इत्यत्र तूष्णीं भाव एव शरणं यावदन्यतरनिश्चायकप्रमाणोपलम्भम् ।
सूत्रकारस्य समयः, एतत्कृता ग्रन्थाः, अस्य रचना शैली इत्या. दिकं तु श्रौतसूत्रभूमिकायामेव मयानिरूपितमिति नात्र पिष्टं पिष्यते । दर्शपूर्णमास-सोमयागीयानां वेदोनां चित्राणि तेषां निर्माणप्रकारः, चयने च यावन्तःप्रकाराः, तेषां स्वरूपावेदकानि चित्राणि, तेषां रचनारीतयश्च श्रौतसूत्रेणैव साकं मुद्रिता इति तत एव ते सर्वेऽव.
गन्तव्याः। Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com