________________
[ ३ ] एवमीश्वरकृपया निर्मितस्यास्य विषये येभ्योऽहमधमर्णोऽतितरां, तेषां मध्ये प्रथमतोऽस्मत्तातपादानां सर्वतन्त्राणामपरेषां कात्यायनानां जगत्पूज्यचरणानामस्मद्गुरुभूतानां विद्वल्ललामभूतानां महामहोपाध्यायानां श्री १०६ प्रभुदत्तशास्त्रिणामाहिताग्नीनां चरणकमलेऽस्मदनुग्रहैकपरायणे अन्यत्कर्तुमनीशानः केवलं मनःकुसुमेनानवरतमर्चयामि, यत्प्रज्ञापारावारेऽनवरतमुल्लसन्त्या वैदिकविद्यावीचिपरम्पराया लेशमात्रमधिगम्य प्रभुरभवमेतद्व्याख्याकरणे।
ग्रन्थस्यास्य विलेखने येषामुपकार श्रासीत् , तेभ्यः श्रीमद्भ्यः श्रीचन्द्रशेखरझामहोदयेभ्यः काशीस्थजोषीराममटरूमल्लगोयेनका संस्कृतमहाविद्यालयाध्यापकेभ्यो ज्योतिषाचार्येभ्यो महती कृतज्ञतां प्रकटयामि ।
ग्रन्थस्यास्य मुद्रणविषये महान्तमपि व्ययभारमविगणय्य गैर्वा णीवाणीप्रणयिभ्यो धार्मिकग्रन्थोद्धरणेऽनवरतमाविष्कृतादरेभ्यो वैदिकपथप्रतिष्ठापने निबद्धकक्षेभ्यः सुरभारतीसेवायामेव समर्पितनिजकरणत्रयेभ्यः, तदेव च परं पुरुषार्थ मन्वानेभ्यो विनयावनम्रभ्यो गुणैकनिधिभ्यः सनातनधमकमयजीवितेभ्यः श्रेष्ठिवर्येभ्यः श्रीगौरीशङ्करगोयेनकामहोदयेम्यो महतीमाशीःपरम्परां हृदयेन वितरामि, प्रार्थयामि च भगवन्तं लोकगुरुमुमापतिम् , सुरभारतीसमुद्रणैकफलेन इतोऽप्यधिकैश्वर्येण तादृशा चायुषा समेधयत्वेनमिति ।
येषां गुरुचरणानामसीमकृपया ग्रन्थोऽयं निर्विघ्नेन परिसमाप्ति मवाप, तेषामेव श्रीविश्वनाथसदृशानामस्मत्तातपादानां महामहोपाध्यायानामग्निहोत्रिणां श्री १०६ मतां प्रभुदत्तशास्त्रियां चरणकमलयोरेव ग्रन्थमिमं समर्पयामि, तेन च मन्ये भगवान् विश्वेश्वरोऽपि प्रीतो भवेदिति । .
शोधनादिव्यापारेऽत्यन्तं जागरूकेण स्थितवतोऽपि मम बहव्योऽशुद्धयस्तथैव स्थिताः। अता विद्वजनान् विनम्रः प्रार्थये-पुनर्मुद्रणावसरे ते साक्षिगोचरीभूता अशुद्धीमा निवेद्य मामनुगृह्णन्त्विति, मयापि इतोऽप्यधिकतरमवहितेन ताः समीकरिष्यन्त इति ।
विदुषामनुचरःविद्याधरशर्मा।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com