SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ कं.५] पुरुषोश्चयकथनम् । माणं द्वितीयचयने वर्धते । श्रा एकशतविधादेवमेव पञ्चदशभागद्वयेन वृद्धिर्भवति । तद् द्वितीयचयनादौ पञ्चदशभागद्वयमर्धाष्टमविभागरूपं भवति तत्समचतुरस्रं पुरुषद्वयात्मकमवधेयम् । श्रतस्तत्करणी पुरुषः स्यादिति । अर्थात् एतादृशेन पुरुषप्रमाणेन " द्विपुरुषां रज्जुं मित्वा" इत्यादिना आद्याग्नौ आत्मादिनिर्माणवत् श्रात्मादिकं निर्मेयमिति । एवमेव द्वित्रादिपुरुषाभ्यासविशिष्टे सार्द्धनव-सार्द्धदशादिफलके समचतुरस्रेऽपि पुरुषप्रमाणमभ्युपगन्तव्यमिति ॥ ५ ॥ ३९ पुरुष प्रमाणस्य पृथग्दर्शने प्रयोजनमाह तस्य दशमेन पादमात्री भवति, पञ्चमेन बृहती || ६ || तस्य समचतुरस्त्रीकृतस्य पुरुषप्रमाणस्य दशमेन दशमांशेन पादमात्री इष्टका स्यात् । पुरुषकरणी दशमो भागः पद्येत्यर्थः । करणीक्षेत्रफलशततमो भाग इति यावत् । पञ्चमेन = पुरुष करणीपश्चमभागेन क्षेत्रफलपञ्चविंशतिभागेन बृहती नामेष्टका स्यात् । पद्या- बृहत्योः कथनमन्यासामिष्टकानामप्युपलक्षणम् ॥ ६ ॥ = पुरुषवर्द्धने द्वितीयं प्रकारमाह पुरुषं वा पञ्चमेनोभयतोऽपच्छिद्यं पञ्च भागान्त्समस्य तृतीयं तृतीयं निर्हृत्य पुरुषप्रमाणेऽवदध्या दित्यपरम् ||७|| अथवा पुरुषं = पुरुषप्रमाणकं समचतुरस्रं पञ्चमेन = पञ्चमभागेन अच्छिद्य विभज्य पुरुषप्रमाणकक्षेत्रस्य तिर्यङमानीं पार्श्वमानी च पञ्चधा विभज्य पञ्चविंशतिं कोष्ठान् कृत्वा तन्मध्ये पञ्चभागान् पञ्चकोष्ठान् समस्य समचतुरस्त्रीकुर्यात् । ततः तृतीयं तृतीयं निर्हृत्य = पञ्चकरणीकृतं चतुरस्रं त्रिधा कृत्वा स्वतृतीयभागं तत्स्मात्स्वसमचतुरस्रादपहृत्य निष्काश्य शिष्टं भागद्वयं समतुरस्री कृत्य तस्मिन्पुरुषप्रमाणे क्षत्रे समस्येत् नानाप्रमाणसमासविधिना समचतुरस्त्रीकुर्यात् । तत्समचतुरस्रं पुरुषप्रमाण कमभ्युपगन्तव्यम् । तस्य करणी पुरुषप्रमाणमित्यर्थः । सोऽष्टविधादौ पुरुषो भवति । श्रस्मिन्नपि पक्षे पुरुषक्षेत्रस्य पञ्चमो भागश्चतुर्विंशत्यङ्गुलविस्तारो विंशतिशताङ्गुलदीर्घश्च चतुरस्रो भवति । तस्मात्तृतीये भागे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034615
Book TitleShulb Sutram
Original Sutra AuthorN/A
AuthorKatyayan Maharshi
PublisherAchyut Granthmala
Publication Year1929
Total Pages70
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy