SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ कं. ३ ] चतुरस्रादिक्षेत्रकथनम् । ख. प. लघुसमचतुरस्रमधिकमिति तु स्पष्टम् । ततः ख. प. बृहत्समचतुरस्रात् ख. प. समचतुरस्रस्य निर्ह्रासेन ( १ ) यत्समचतुरस्रं तत् अभीष्टदीर्घसमचतुरस्रमिति ॥ २ ॥ श्र ख २३ एवं विस्तारद्विगुणायामदीर्घचतुरस्त्रस्य समचतुरस्रकरण प्रकारमुक्त्वा इदानीं विस्तारद्विगुणाधिकायामदीर्घ चतुरस्रस्य समचतुरस्त्रसाधनोपायमाह अतिदीर्घ चेतिर्यङ्मान्याऽपच्छिद्याऽपच्छिद्यैकसमासेन समस्य शेषं यथायोगमुपसर्ट ० हरेदि त्येकसमासः ॥ ३ ॥ श्रतिदीर्घं = विस्तारद्विगुणाधिकायामं दीर्घचतुरस्रं चेत् तदा तिर्ययान्या दक्षिणोत्तररजवा पार्श्वमानीसूत्रमपच्छिद्य अपच्छिद्य = (१) निर्ह्रासप्रकारश्च ( २ ) - बृहत्समचतुरस्रात् लघुसमचतुरस्रं निहतुमिच्छन् बृहत्समचतुरस्र संमुखभुजयोः लघुसमचतुरस्रभुजतुल्ये रेखे छित्वा तच्छेदनबिन्दुद्वयगत पार्श्व मानीरूपप्रसारणेन बृहत्समचतुरस्रभुजतुल्प्रपार्श्वमानीकं लघुसमचतुरस्त्र भुजतुल्य तिर्यङ्मानीकं च दीर्घचतुरस्त्रं जायते । तत्र एककोणात् बृहत्समचतुरस्रभुज तुल्यसूत्रं तथाऽक्षणयारूपेण प्रसारयेत् यथा तदग्रं संमुखपार्श्वमानी संलग्नं भवेत् । एवं सति तत्संयोगबिन्दोः अभीष्टकोणगततिर्यङ् मानीपर्यन्तं यत् संमुखपार्श्वमानीखण्डं तद्रूपकरण्या निर्मितं समचतुरस्रं चिकीर्षितं समचतुस्त्रं भवितुमर्हति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034615
Book TitleShulb Sutram
Original Sutra AuthorN/A
AuthorKatyayan Maharshi
PublisherAchyut Granthmala
Publication Year1929
Total Pages70
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy