SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ सवृत्ति - कात्यायन -शुल्बसूत्रे - [ कं. २ युगप्रमाण- शम्याप्रमाणयोर्वेद्योः श्रुतौ दर्शनात् तत्प्रमाणं पूर्वमुपदिष्टम् ( २४ - ५ ) ॥ १० ॥ १६ क्षेत्रमापनार्थं किंचिदाह दीर्घचतुरस्रस्यादणपा रज्जुस्तिर्यङ्मानी पार्श्वमानी च यत्पृथग्भूते कुरुतस्तदुभयं करोतीति क्षेत्रज्ञानम् ॥ ११ ॥ दीर्घचतुरस्रस्य क्षेत्रस्य या तिर्यङ्मानी, साऽन्यत्र करणीत्वेन पृथग्भूता सती यत्प्रमाणकं समचतुरस्रं करोति, तथा दीर्घ चतुरस्रस्य क्षेत्रस्य या पार्श्वमानी साऽन्यत्र करणीत्वेन पृथग्भूता सती यत्प्रमाणकं समचतुरस्रं करोति, तदुभयमपि मिलितं दीर्घचतुरस्त्रस्यादण्या रज्जुः करोति इति क्षेत्रज्ञानं = क्षेत्रमान प्रकारो ज्ञातव्यः (१) ॥ ११ ॥ अथ द्वैगुण्यादिक्षेत्र प्रकारमाहसमचतुरस्रस्यादण्या रज्जुर्द्विकरणी ॥ १२ ॥ समचतुरस्रस्य क्षेत्रस्य याऽक्ष्णया = कर्णसूत्रभूता रज्जुः, सा द्विकरणी = द्विगुणक्षेत्रस्य प्राचीसूत्रप्रमाणमित्यर्थः ( २ ) ॥ १२ ॥ (१) यथा - " पदं तिर्यङ्मानी, त्रिपदा पार्श्वमानी, तस्याक्ष्णया रज्जुदेशकरणीति दीर्घचतुरस्रमुक्तम् । तत्र पदप्रमाणा तिर्यङ्मानी पदक्षेत्रफलकं चतुरस्रं करोति, पार्श्वमानी तु त्रिपदा, सा च नवपदक्षेत्रफलकं चतुरस्रं करोति, एवमुभयं मिलित्वा दशपदक्षेत्रफलकं चतुरस्रं जातं तच्च दीर्घचतुरस्रस्य पदमात्रतिर्यङ्मानी - त्रिपदपार्श्वमानीभ्यां जातस्याक्ष्णयारज्जुरेव करोतीति ज्ञेयम्। तिर्यङ्मान्याः पार्श्वमान्याश्च वर्गों कृत्वा तावेकीकृत्य तस्य मूले समानीते दीर्घचतुरस्रस्य कर्णसूत्रमानमेव भवति" इति महीधरः । " 9 ( २ ) - यथा - ' - "हस्तमात्रे समचतुरस्त्रे चतुर्विंशत्यङ्गुलमिता प्रमाणरज्जु :, ततश्चतुर्विंशत्या चतुर्विंशत्या गुणिता षट्सप्तत्यधिका पञ्चशती भवति सा द्विगुणिता द्वापञ्चाशदधिकैकादशशती, तस्था मूलं किंचिन्न्यून चतुखिंशदङ्गुलानि तान्येव द्विहस्तसमचतुरस्वरूप मानम्" इति महीधरः । त्रिहस्तादौ एकहस्तवर्ग त्रिगुणादि कृत्वा तत्तन्मूलानयनेन तत्तदायामप्रमाणं बोध्यम् । यथा - त्रिहस्ते ४१ अङ्गुलानि ५ वा इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034615
Book TitleShulb Sutram
Original Sutra AuthorN/A
AuthorKatyayan Maharshi
PublisherAchyut Granthmala
Publication Year1929
Total Pages70
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy