SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ २० सवृत्ति-कात्यायन-शुल्बसूत्रे [कं. ३ नानाप्रमाणसमासे हसीयसः करण्या वर्षीयसोऽ. पच्छिन्द्यात्तस्याक्षणयारज्जुरुभे समस्यतीति समासः ॥२२॥ नानाप्रमाणानां = भिन्नप्रमाणानां समचतुरस्राणां समासे = संक्षेपे कार्ये हसीयसो ह्रस्वतरस्य समचतुरस्रस्य (अष्टाङ्गु लादेः) करण्या वर्षीयसो वृद्धतरस्य (द्वादशाङ्गुलादेः ) करणी पार्श्वमानी तिर्यमानी वाऽपच्छिन्द्यात् = ह्रस्वकरणीमानेन दीर्घकरणी कोणतो मित्वा विदारयित्वाऽवशिष्टं चतुरङ्गुलादिभागं जह्यात् । तस्य ह्रस्वकरणीमानेन छिन्नस्य दीर्घक्षेत्रस्य अदणयारज्जुः करणी. भूय अन्यच्चतुरस्रं कुर्वती उभे = वृद्धहस्वतरे क्षेत्रे समस्यति संक्षिपति इति समासः= अतुल्यप्रमाणसमचतुरस्त्रसंक्षेपप्रकारः (१) ॥२२॥ इति कात्यायनशुल्बसूत्रवृत्तौ चतुरस्रादिक्षेत्रनिरूपणी द्वितीया कण्डिका ॥२॥ एवं ह्रस्वमहतोः क्षेत्रयोः समासं निरूप्य महत्क्षेत्रात ह्रस्वक्षेत्रस्य पृथक्करणं कथं विधातव्यमित्याहचतुरस्राच्चतुरस्रं निर्जिहीर्षन् यावनिर्जिहीर्षे त्तावदुभयतो ऽपच्छिद्य शङकू निखाय पार्श्वमानी कृत्वा पार्श्वमानी सम्मितामक्षणयां तत्रोपसहरति समासे ऽपच्छेदः सा करण्येष निर्हासः ॥१॥ तत्र बृहत्प्रमाणकसमचतुरस्रस्य एकपार्श्वगतकोणाभ्यां संमुखभुजयोरल्पचतुरस्त्रभुजतुल्ये रेखे अपच्छिद्य तच्छेदनबिन्दुद्वये शङ्क निखाय, शङ्कमूलयोवृहत्समचतुरस्त्रभुजतुल्यसूत्रं बद्ध्वा बृहच्चतुरस्त्रभुजतुल्यदैर्घ्यम् अल्पसमचतुरस्रभुजविस्तारं दीर्घचतुरस्रमुत्पादयेत् । तत्र एककोणाद् बृहत्समचतुरस्रभुजतुल्यां रेखां तथा (१) महीधरः-यथा-द्वादशाङ्गलकरणीकमेकं चतुरस्रं, तत्राष्टाङ्गुलकरणीकं समसितव्यं, तत्र द्वादशाङ्गलारण्यां कोणादारभ्याष्टाङ्गलेषु चिन्हं कुर्यात् । चतु. रङ्गलानि यक्त्वा चिन्हादारभ्याभिमुखकोणान्तं कर्णसूत्रं दत्वा तन्मितकरण्या यच्चतुरस्रान्तरं क्रियते, तत्र हस्वमहतोः क्षेत्रयोः समासः स्यात् । एवमन्ययोरपि हस्वमहतोः क्षेत्रयो:समासप्रकारो बोध्यः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034615
Book TitleShulb Sutram
Original Sutra AuthorN/A
AuthorKatyayan Maharshi
PublisherAchyut Granthmala
Publication Year1929
Total Pages70
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy