Book Title: Shulb Sutram
Author(s): Katyayan Maharshi
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 62
________________ कं.७] श्लोकशुल्बम् । चतुरस्त्रं मुद्गरं तत् षोडशाङ्गुलमायतम् । अविद्धं क्रमणीयं च दारुमध्याच निर्मितम् ॥११॥ अविद्ध काष्टान्तरेणाप्रोतम् । क्रमणीयं शङ्कुहननरूपक्रमणाहम् ॥११॥ अजीर्णा ग्रथिनीसूक्ष्मासमा श्लक्षणा त्वरोमशा। रज्जुर्मानाधिका कार्या अध्वरे योगमिच्छता ॥१२॥ शाणी वा बाल्पजी चैव वैणवी वा विधीयते । रज्जुस्तूभयतःपाशा त्रिवृता यज्ञकर्मणि ॥१३॥ रज्जुर्मुञ्जमयी कार्या शणैस्तु परिमिश्रिता । कात्यायनो वदत्येवमखोडा कुशवत्वजैः ॥१४॥ अखोडा = अखण्डा ॥१४॥ नवके लक्षणं कुर्यात् त्रीणि कुर्यात्रिषु त्रिषु । उत्तमो नवकः पाशः सदसो मानमुच्यते ॥१॥ प्रथमं नवारनिषु चिन्हं श्रोणिमानार्थम्, ततस्यरनिषु श्रोणिभागे निरञ्छनार्थम् , पुनस्यरनिष्वंसनिरञ्छनार्थम्, ततोऽपि । ध्यरनिष्वंसार्थम्, ततो नवसु पाश एव ॥१५॥ पञ्चदशमेकविंशं त्रिकमपरं च परतस्त्रिकं चापि । द्वादशसुपाश उत्तम इति सोमे रज्जुमानमिति ॥१६॥ पञ्चदशसु श्रोणिनिरञ्छनार्थं चिन्हम् , ततश्चिन्हादेकविंशति प्रक्रमेष्वायमनार्थं संख्यासमासभङ्गचिन्हम्, ततस्त्रिषु प्रक्रमेषु निरञ्छनचिन्हम् , ततोऽपि त्रिष्वंससमानयनाथं चिन्हम् , (चतुर्विशतिप्रक्रमा हि प्राची) ततो द्वादशसु पाश एवेति चतुष्पञ्चाशत्प्रक्रमा रज्जुः प्रमाणाद्धं वाऽभ्यस्येति कथिता ॥१५॥ पदस्थापणया, तिरश्ची याऽनयोरपणया भवेत्।। सौत्रामण्यांनिमातव्या वेदिः स्यात्सोमवत्तया ॥१७॥ पदक्षेत्रस्यादणया पार्श्वमानी, तिरश्ची - तिर्यजमानी, तयोरक्ष्ण या तृतीयकरणी सौत्रामण्यां प्रक्रम इत्यर्थः। एवं च परिशिष्टShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70