Book Title: Shulb Sutram
Author(s): Katyayan Maharshi
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 64
________________ कं. ७ ] लोकशुल्वम् । ५३ अरति चतुर्विंशो भागोऽङ्गुलम्, अरम्यर्थो वितस्तिः अङ्गुलस्य षष्ठोऽशो यवोदर विस्तारः, तस्य पञ्चमोऽशः सर्षपः तस्यार्द्ध सर्षपार्द्धम्, तस्य तृतीयोऽशस्त्रिहायणी बालः, तस्य षष्ठोऽशः पुष्करतन्तुरिति सङ्गिप्तोऽर्थः ॥ २६ ॥ हिरण्यशकलार्थे तु हिरण्यं यस्य नोच्यते । कृष्णलेनैव तयाख्या यज्ञे सिद्ध्यति याज्ञिकी ॥ २७॥ कृष्णलं त्रियवं मानं ताम्रायसमतः परम् । सुवर्णमाषाणां सुवर्णाश्च त्रिसप्ततिः ॥ २८ ॥ त्रीणि चैव सहस्राणि दद्याद् बहुसुवर्णके । भूयः स्थपतितो ज्ञात्वा संज्ञास्वन्यासु मानवित् । स्वर्णकारो यथाऽभ्यासात्तथा भूयो विवर्धते ॥ २६ ॥ हसते शोषपाकाभ्यां द्वात्रिंशद्भागमिष्टका तस्मादार्द्रप्रमाणं तु कुर्यान्मानाधिकं बुधः ॥ ३० ॥ अज्ञात्वा शुल्वसद्भावं यज्ञे सौत्रामणीसुते । वेदिं येकर्तुमिच्छन्ति गिरिं भिन्दन्ति ते नखैः ॥३१॥ दण्डरज्ज्वर्द्धमभ्यस्य षष्ठे त्वर्धस्य लक्षणम् । तथैव चेतरत्रापि चेतरत्रापि तिर्यङ्मानं यदृच्छया ॥ ३२॥ यावत्प्रमाणा रज्जुः स्यात्तावानेवागमो भवेत् । श्रागमार्द्धे भवेच्छङ्कुस्तदर्द्धे च निरञ्छनम् ॥ ३३॥ i श्रागमोऽभ्या सभागः, श्रागमार्द्ध शङ्कुः श्रोण्यं सार्थः, श्रन्तरर्द्ध संख्यासमासभङ्गागमार्द्धचिह्नयोरन्तराले निरनचिह्नम् ॥ ३३ ॥ आधाने पदिकं कुर्याद् द्विपदः सौमिको भवेत् । अग्नौ च त्रिपदं कुर्यात् प्रक्रमं याज्ञिको बुधः ||३४|| कृत्तिका श्रवणः पुष्यश्चित्रास्वात्योर्यदन्तरम् । एतत्प्राच्या दिशो रूपं युगमात्रोदिते पुरः ||३५|| बडशीत्यङ्गुलं युममात्रं यदोदितं कृत्तिकादिनक्षत्रमाकाशमारोहति, तदा तदुपलक्षिता प्राची ज्ञेया ॥ ३५ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70