Book Title: Shulb Sutram
Author(s): Katyayan Maharshi
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 59
________________ सवृत्ति - कात्यायन-शुल्बसूत्रे - [ कं. ६ 9 वेदिवर्द्धनं प्रतिज्ञातं तच्च प्रक्रमसाध्यम् । श्रतो यूपैकादशिन्यां यूपानां रथाक्षमात्रान्तरालपक्षे वेदिसाधनार्थ प्रक्रमप्रमाण माह ४८ या रज्जुरेकादशोपरवान्त्संक्षिपति दश च रथाचांस्तस्या यश्चतुर्वि०शो भागः स प्रक्रमः ॥ ६ ॥ या रज्जुरेकादश संख्याकानु परवान् = यूपगर्तान द्वादशाङ्गुलप्रमाणान्, तथा दश रथाक्षान् = चतुरधिकशताङ्गुलप्रमितानि दशसंख्याकानि यूपान्तरालानि च संक्षिपति = मिनोति एतावदायता रज्जुः पञ्चविंशत्यङ्गुलाधिकाऽष्टाचत्वारिंशदरनिमिता भवति । तस्या यश्चतुर्विंशो भागः तृतीयभागसहित मेकमर्द्धाङ्गुलं द्वावरत्नी, स प्रक्रमः = यूपैकादशिन्यामेतावत् प्रक्रमप्रमाणमित्यर्थः ॥ ६ ॥ तेन वेदिमानं कुर्यादित्याह - तेन वेदिं निर्माय द्वादशाङ्गुलं पुरस्तादपच्छिद्य तद्यूपाव ट्याच्छृङ्कोः पुरस्तात्प्राञ्चमवधाय तस्मिन्यूपा - न्मिनोति ॥ १० ॥ = तेन वर्द्धितप्रमाणेन पूर्वोकेन प्रक्रमेण वेदिं निर्माय " बत्रिंशत्प्रक्रमा प्राची" (का.श्रौ. ८ (३८) इत्यादिविधिना विरच्य पुरस्ताद् = वेदेः पूर्वभागे द्वादशाङ्गुलं = द्वादशाङ्गुलप्रमाणविस्तारमपच्छिद्य = अर्थात् वेदिपूर्वभागेशानकोणादारभ्याग्नेय कोणपर्यन्तं द्वादशाङ्गुविस्तारं द्वासप्तत्यधिकैकादशशताङ्गल मितदीर्घमतिदीर्घचतुरस्ररूपं दक्षिणोत्तरायतं वेदिक्षेत्रं छित्वा तं छिन्नं भागं यूपावट्यात् = यूपावडे गर्ते भवो यूपावट्यः, तस्मात् शङ्कोः प्राञ्चं = पूर्वापरायतमवधाय = संयोज्य तस्मिन् छिन्ने = पूर्वापरतया संयोजिते वेदिभागे रथाक्षमात्रान्तरालान् गर्तान् खात्वा तेषु प्राक्संस्थान् यूपान् मिनोति । एवं कृते एकादशापि यूपा वेद्यन्तरे निवेशिताः स्युः, प्राची च यूपपतिः कृता भवति इति पूर्वपक्षः ॥ १० ॥ सिद्धान्तमाह = पार्श्वयोर्वाऽर्द्धमन्तर्वेदीति श्रुतेरर्धकान् ॥ ११ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70