Book Title: Shulb Sutram
Author(s): Katyayan Maharshi
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 57
________________ सवृत्ति - कात्यायन -शुल्बसूत्रे - [ कं. ६ यद्वा सप्तमभागसहितेन प्रक्रमेण प्रेक्रमकार्यं द्वितीये चयने कार्यम् ॥ ४ ॥ ४६ एवमेवैकशतविधात् ||५ ॥ यथाऽष्टविधे द्वितोयचयने एकसप्तमांशवृद्धिरुका । पवम् श्रा एकशतविधात् नवविधादेकशतविधचयनपर्यन्तं द्विज्वादयो ऽभ्य स्तसप्तमांशाः प्रक्रमक्षेत्रे वर्धनोयाः ॥ ५ ॥ अन्तःपात्य-गार्हपत्ययोर्वृद्धिं प्रतिषेधति– नान्तः पात्यगार्हपत्ययोर्वृद्धिर्भवति तावदेव योनिर्भवति न व जातं गर्भ योनिरनुवर्द्धत इतिश्रुतेर्वृद्धेरत्यन्तप्रतिषेधः ॥६॥ · श्रन्तः पात्य गार्हपत्ययोर्वृद्धिर्न भवति । उख्याग्निस्थाने कृता व्याममात्रविस्तारा मण्डलाकारा गार्हपत्यचितिर्गार्हपत्यशब्देनोच्यते । तस्मात्पूर्वभागे वेद्यन्तपर्यन्तं प्रक्रमत्रयपरिमितो भूभागोऽन्तः पात्य शब्देनोच्यते । अत्र चयने प्रक्रमस्त्रिपदः । तयोर्द्वितीयादिचयनेषु श्रग्निक्षेत्र वेदीष्टकावत् वृद्धिः प्राप्ता सा निषिध्यते । कुतः ? तावदेव योनिर्भवति । अन्तः गत्य सहिता गार्हपत्यचितिः श्रुतावग्नेर्यो नित्वेनोक्ता | तावत्क्षेत्रं योनिर्भवति । भवतु योनिस्तथापि वृद्धिः कथं वार्यत इत्याहन वैजातमिति । जातं गर्भमनु = गर्भोत्पत्तेः पश्चात् योनिर्न वर्द्धते । यावद्योनौ गर्भः स्थितस्तावद् गर्भवृद्ध्यनुसारेण योनिर्वर्द्धते । गर्भोस्पत्यनन्तरं गर्भ एव वर्द्धते न योनिः इति श्रुत्या उक्तत्वात् अन्तः पात्य - गार्हपत्य चित्योरत्यन्तं वृद्धिप्रतिषेधः ॥ ६ ॥ द्वित्रादिपरार्द्धपर्यन्तानां तुल्यप्रमाणानां समचतुरस्त्राणां द्विकरण्याद्युपायेन समासविधिरुक्तस्तस्य दुष्करत्वात्सुगमोपायेन करणीमाह यावत्प्रमाणानि समचतुरस्राण्येकी कर्तुं चिकीर्षे दे कोनानि तानि भवन्ति तिर्यग द्विगुणान्येकत एकाधिकानि व्यस्त्रिर्भवति तस्येषुस्तत्करोति ॥ ७ ॥ यावत्प्रमाणानि यावत्सङ्ख्याकानि समचतुरस्राणि समानानि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70