Book Title: Shulb Sutram
Author(s): Katyayan Maharshi
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 55
________________ सवृत्ति-कात्यायन-शुल्बसूत्रेतिर्यङ्मानीकं सप्तप्रक्रमपार्श्वमानीकं दीर्घचतुरन चतुर्दशप्रकमफलकं निर्माय तत्समचतुरस्त्रीकुर्यात् । तेन चतुर्दशफलकं समचतुरस्र स्यात् । एवं व्यङ्गुलसप्तमांशयुतपञ्चदशाङ्गुलविस्तारं षट् विंशदङ्गुलदीर्घचतुरस्र प्रक्रमक्षेत्रस्य त्रिगुणितसप्तमांशरूपं समचतुरस्त्रीकुर्यात् । ततोऽनयोः समचतुरस्रयोः समासे या करणो सा चतु दश प्रक्रमान् त्रीश्च प्रक्रमसप्तमभागांश्च सक्षिपति । अतः सैव करणी एकशतविधेऽनो प्रक्रमः (१) ॥२॥ षट् शतान्यष्टसप्तत्यधिकानि । तत्र-वक्रालिखिता अर्द्धपादभागाः २६२, ऋचालिखिता अर्द्धपादभागाः ४१६ । चतुर्भागा द्वादश । तत्र वक्रालिखिताश्चत्वारः, ऋज्वालिखिता अष्टौ। पद्याः सप्तशतानि सप्त सप्तत्यधिकानि। तत्र-पूर्णोत्सेधाः पद्याः ७५९, अर्होत्सेधाः पद्याः १८ । अर्द्धपद्या अष्टाशीतिशतम । तत्राोत्सेद्या द्वादश । तत्र चतस्रस्तिाश्वालिखिताः, अष्टौ ज्वालिखिताः। तिरश्चालिखिताः सप्तविंशतिः। तासां मध्ये चतस्त्रोऽोत्सेधाः, त्रयोविंशतिः पूर्णोत्सेधाः। शेषा ऋज्वालिखिताः, वक्रालिखिते अर्धपद्य द्वे इति। जवामान्यः ५०, त्रिग्राहिण्यः ७०, वकाः ८, अध्य ः १११, बृहत्यः ६ वा ७, अर्द्धवृत्यः ४, पादोने २ इति । इयमिष्टकानां सङ्ख्या उपधानकालीना। निष्पादनकाले सर्वा इष्टका उत्तसङ्ख्यातोऽधिकाः कारयितव्याः । यथा भेदनादिनाऽल्पा न भवेयुः । (१) अयमर्थः-त्रिपदकरणीकसमचतुरस्नस्य यः सप्तमोऽशः पत्रिंशदङ्ग लायामोऽङ्गलसप्तमांशसहितपञ्चाङ्गलविस्तारो भूभागः कृतः, पञ्चदशाङ्गुलानि त्रिससमभागयुतानि विस्तारे षटत्रिंशदङ्गलान्यायामे भवन्ति । तं चतुरस्त्रीकृत्य या करणी चतुर्दशगुणं त्रिपदकरणीकं संक्षिपति तत्करणीके चतुरस्र नानाप्रमाणसमासविधिना तं प्रक्षिपेत् । तत्क्षेत्रस्य करणी एकशतविधे चयने प्रक्रमवाच्या। तेन प्रक्रमेण प्रकृतिवद्वेदिः साध्या । स चान्तिमचयनप्रक्रमः, किंचिदूनसप्तत्रिंशदधिकशता. ङ्गलप्रमितो भवति । तच्चैवं विधेयम्। पूर्वमग्निक्षेत्रं सार्द्धसप्तपुरुषात्मकं समचतुरस्रीकृतं स्वसप्तमभागेन द्वितीयचयने वर्द्धयेत् । एवं तृतीयादिष्वपि एकैकीच्चयेन स्वसप्तमभागवृद्धिः। तृतीये द्वौ सप्तम भागावधिको, चतुर्थे त्रयः, पञ्चमे चत्वारः, षष्टे पञ्च, सप्तमे षट् । अष्टमे प्रथमक्षेत्रस्य द्विकरणी। एवं क्रमेण पञ्चनवतितमे चयने चतुर्णवतिः सप्त भागाः वर्द्धन्ते । तत्साधनोपायस्तु-प्रथमे चयने पदयाप्रमाणेन पृथक चतुर्दश चतुरस्राणि संसाध्य तानि नानाप्रमाणसमासविधिना एकी. कृत्य चतुर्दशकरणीकमेकं चतुरस्रं साधयेत् । ततः पद्याप्रमाणक्षेत्रं सप्तधा विभज्य तस्य त्रीन् भागान् समस्य = चतुरस्रं कृत्वा तत्सप्तमभागत्रयसाधितं चतुरस्त्रं चतुर्दशकरणोके चतुरस्त्रे नानाप्रमाणसमासविधिनाऽऽवपेत् । तदावापे कृते यावच्चतुरस्रं जायते सैकशतविधे पदयाभिर्दक्षिणोत्तरं पूर्वापरं वा पङ्क्तिस्थाShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70