Book Title: Shulb Sutram
Author(s): Katyayan Maharshi
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 54
________________ ४३ कं. ६ ] वेदीष्टकावर्द्धनप्रकरणम् । त्रिंशम्मात्रा तु हीयते" ( का० शु० के० ९ सू० २३ ) इति वचनान्तराच पुरुषे पुरुषद्वात्रिंशांशं वा त्रिंशांश वा वर्द्धयित्वा इष्टकायन्त्रनिर्माणं कुर्यात् । रामचन्द्रवाजपेयिनस्तु " अयं द्वात्रिंशांशहासः पादभागाविषयः। तेन पद्यायां द्वौ द्वात्रिंशांशी, जङ्घामान्यां त्रयो द्वात्रिंशांशाः, बृहत्यां वक्रासु च चत्वारो द्वात्रिंशांशा वर्द्धनीयाः । एवमर्द्धबृहतीनां त्रिग्राहिण्यां च हासादिकमूह्यमित्याहुः। ततस्तं वंशं दशधा विभज्य चिन्हानि कुर्यात् । एवं, तस्य वंशस्य दशमो भागः पदसंज्ञको भवति, पदस्य द्वादशांशोऽगुलमिति । अत्रेष्टकाश्चतुर्दशविधा भवन्ति । पद्या, अर्द्धपद्या, पोदोनपद्या, जङ्घामात्री, अध्यर्द्धा, अर्होत्सेधा पद्या, अर्होत्सेधा अर्द्धपद्या, पादभागा, त्रिग्राहिणी, अर्धपादभागा, बृहती, वका, अर्द्धबृहती, चतुर्भागा, इति । तत्र द्वादशाङ्गुलसमचतुरस्राः पद्याः, द्वादशाङ्गुदीर्घाः षडङ्गुविस्तृताः अर्द्धपद्याः, द्वादशाङ्गुलसमचतुरस्राः एकेन पादेन ( कोणेन) न्यूनाः = त्रुटिताः पादोनपद्याः, अष्टादशालसमचतुरस्रा जडामात्र्यः, अष्टादशाङ्गुलदीर्घा द्वादशाङ्गुलविस्तृता अध्यः ,द्वादशाङ्गुलसमचतुरस्रास्यगुलोच्चा दुव्यङ्गुलोच्चा वा अर्होत्सेधापद्याः, द्वादशाङ्गुलदीर्घाः षडङ्गुविस्तृतारूयङ्गुलोच्चा दुव्यगुलोच्चा वा अर्होत्सेधा अद्धपद्याः, षडङ्गुलसमचतुरस्राः पादभागाः, चतुर्विशत्यगुलदीर्वाः अष्टादशागुलविस्तारास्त्रिग्राहिण्यः, षडङ्गलदीर्घाख्यङ्गलविस्तृता अर्द्धपादभागाः, चतुर्विंशत्यङ्गलसमचतुरस्त्रा बृहत्यः, चतुर्विशत्यङ्गलदीर्वा द्वादशाङ्गलविस्तृता अर्द्धबृहत्यः, व्यङ्गलसमचतुरस्राश्चतुर्भागा इति । उच्चता तु षडङ्गुलमिता सर्वासां चतुरङ्गुलमिता वा। अर्घोत्सेधापद्याऽद्धोत्सेधार्द्धपद्ययोस्तु दुव्यङ्गले व्यङ्गलं वोच्चत्वम् । वक्राणां प्रमाणसाधनोपायस्त्वेवम् । पूर्वमर्द्धव्यामेन व्याममात्रप्रमाणं वृत्तं विलिख्य तन्मध्ये चतुर्विशत्यङ्गलं समचतुरस्रं साधयित्वा तस्य कोणेषु कोणादारभ्य वृत्तं यावदेखाः कुर्यात्, एवं चतुरस्रस्य दिश आरभ्य वृत्तं यावत् रेखा दद्यात् , एवं कृते अष्टौ वक्रा विभागा जायन्ते । एतादृशं क्षेत्रं विलोक्य वक्रदारुघटनेन वकेष्टकानां प्रमाणं निष्पादनीयम् । सर्वासु इष्टकासु अङ्गुलिकाष्ठादिना त्रीणि त्रीणि चिन्हानि कार्याणि । तानि च चिन्हानि वक्राणि, ऋजूनि, तिरश्वालिखितानि च तासु तास्विष्टकासु कार्याणि । तत्र वक्राणि चिन्हानि ~~ एतादृशानि भवन्ति । ऋजूनि च ॥ एतादृशानि, तिरश्चालिखितानि च--- एतादृशानि कार्याणि । अथेष्ट कानां सङ्ख्या -तत्र एकादश सहस्राणि एकशतं च सप्तत्यधिकं समग्रा इष्टकाः ११७० । तत्र दश सहस्राणि अष्टौ शतानि च लोकम्पृणाः १०८०० । त्रीणि शतानि सप्तत्यधिकानि यजुष्मत्यः । (शतपथे तु दर्भस्तंब-दूर्वेष्टका-स्वयमातृण्णा-कूर्मोलूखलायाः पञ्चविंशसङख्या इष्टका आसां मध्येऽधिकाः पठित्वा त्रीणि शतानि पञ्चनवतिर्यजुष्मत्य उक्ताः । एताः पञ्चविंशतिरिष्टकास्तिस्रो नैत्यश्वोक्तसङ्ख्यातोऽधिकाः)। उक्तष्टकानां मध्ये नव सहस्त्राणि द्वे शते द्वाषष्टयधिके ९२६२ पादभागाः तत्र वक्रालिखिताः पादभागाः १७३२, ऋग्वालिखिताः पादभागाः ७५३० । भर्द्धपादभागाः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70