Book Title: Shulb Sutram
Author(s): Katyayan Maharshi
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 51
________________ सवृत्ति कात्यायन शुल्बसूत्रे - [ कं. ५ निष्काशिते षोडशाङ्गुल विस्तारं विंशतिशताङ्गुलदीर्घं क्षेत्रं भवतीति तावदेवायाति । तस्य दशमेन पादमात्री पञ्चमेन बृहतीत्यत्रापि समानः ॥ ७ ॥ ४० पुरुषं पञ्चदश भागान् कृत्वेत्यत्र पञ्चदशमो भागः कियान् भवतीति स्पष्टयितुमाह पञ्चदशभागोऽष्टाङ्गुलम् ॥८॥ पुरुषकरण्याः पञ्चदशो भागोऽष्टाङ्गलात्मकः स्यात् । तद् द्वयं षोडशाङ्गुलविपुलं विंशतिशताङ्गुलदीर्घं क्षेत्रम् । तदावापे कृते पुरुषो वर्द्धितो भवति ॥ ८ ॥ वितस्त्यङ्गुलपदशब्दानां लोकप्रसिद्धानां मानमाहपञ्चारनिर्द्विदशवितस्तिविंशतिशताङ्गुलः पुरुष इत्येतस्माद् द्वादशाङ्गुलं पदमिति च ॥ ६ ॥ 2 पञ्चरत्नयो यस्य दश वितस्तयो यस्य, विंशतिशतमङ्गलानि यस्य स पुरुष इत्यरत्न्यादिमानमेतस्मात्पुरुषाद् ज्ञेयम् । पदं च द्वादशाङ्गुलमित्यपि ज्ञेयम् ॥ ६ ॥ पुरुषवर्द्धने तृतीयं प्रकारमाह पुरुषं वा सप्तमेनोभयतोऽपच्छिद्य सप्त भागान्त्समस्य सप्तमभागमङ्गुलं निर्हृत्य पुरुषप्रमाणेऽवदध्यादि त्यपरम् ॥१०॥ अथवा पुरुषं = पुरुषप्रमाणकं समचतुरस्रक्षेत्रं सप्तमेन स्वसप्तमांशेन उभयतोऽपच्छिद्य विभज्य सूत्रप्रसारणेन एकोनपञ्चाशत् सम कोष्ठान् निष्पाद्य तन्मध्ये सप्त भागान् पुरुष सप्तमांशरूपान् समस्य समचतुरस्त्रीकृत्य सप्तमभागमङ्गुलं निर्हृत्य = सप्तमभागेनाङ्गल सप्तमांशेन सहितमङ्गलमेकविंशतिशताङ्गुलदीर्घं क्षेत्रं समचतुरस्त्रीकृत्य - समसितसप्तमांश रूप समचतुरस्रात् निष्काश्येत्यर्थः । शिष्टं समचतुरस्रीकृत्य तस्मिन् पुरुषप्रमाणके क्षेत्रेऽवदध्यात् = समस्य चतुरस्त्रीकुर्यात् इत्यपरं पुरुषविधानम् । श्रयमर्थः । श्रङ्गुलसप्तमांशसहितां सप्तदशा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70