Book Title: Shulb Sutram
Author(s): Katyayan Maharshi
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 49
________________ ३८ सवृत्ति-कात्यायन-शुल्बसूत्रे- [कं. ५ पुरुषाभ्यासे कर्तव्ये यावान् पूर्वोक्तोऽग्निः सार्धसप्तपुरुषात्मकः सपक्षपुच्छविशेषः पक्षाभ्यां पुच्छेन विशेषेण = अधिमानेन च सहितः तत्प्रमाणं समचतुरस्रं नानाप्रमाणसमासविधिना कृत्वा तस्मिन् सम. चतुरस्त्रीकृतेऽग्नौ पुरुषप्रमाणं =पुरुषप्रमाणं क्षेत्रमवदध्यात् = नानाप्रमा. णसमासविधिनैव प्रक्षिपेत्। एवं सार्द्धष्टपुरुषात्मकं चतुरस्रं स्यात् । तद्यथा-सार्द्धसप्तपुरुषात्मकेऽग्नौ पुरुषचतुष्टयात्मकं समचतुरस्रं पुरुषद्वयरज्जुरूपकरण्या निर्मितमात्मपदवाच्यम् । षडरत्निदीर्घ पञ्चारनिविस्तृतं क्षेत्रद्वयं पक्षपदवाच्यम् । सार्द्धपञ्चारनिदीर्घ पञ्चारनिविस्तृतं क्षेत्रं पुच्छपदवाच्यम् । एतेषां योगेन सार्द्धसप्तपुरुषात्मकमग्निक्षेत्रं भवति । अतः पक्षरूपं दीर्घचतुरस्रद्वयं पूर्वोक्त प्रकारेण समचतुरस्रीकृत्य द्विकरण्या द्वयमप्येकसमासेन समस्य, एवं पुच्छरूपदीर्घचतुरस्त्रमपि समचतुरस्त्रीकृत्य द्वयमपि आत्मरूप पुरुषचतुष्टयात्मकसमचतुरस्त्रेण तयैव दिशा समस्येत् । एवं निष्प नं समचतुरस्रं सार्द्धसप्तपुरुषात्मकं भवति । ततस्तस्मिन् समचतु. रस्ने पुरुषप्रमाणं = पुरुषमात्रदैर्ध्यविस्ताराभ्यां निर्मितं समचतु. रत्रमवध्यात् = समस्येत् समस्य चतुरस्त्रीकुर्यात्, तदा सार्द्धष्टपुरुषफलकं समचतुरस्रं भवितुमर्हति । एवमेकपुरुषाभ्यासो निष्पनः । एवमेव द्विव्यादिपुरुषाभ्यासप्रकारो बोध्यः ॥ ४॥ द्वितीये चयने कियान् पुरुषभागः प्रक्षिप्त इत्याशङ्कायां तत्र क्षिप्त पुरुषमानं पृथग्दर्शयतिसमस्तं पञ्चदश भागान् कृत्वा द्वावेकसमासेन समस्येत्स पुरुषः ॥ ५ ॥ समस्तं = पुरुषाभ्यासविशिष्टं समचतुरस्र सार्हृष्टपुरुषफलक पञ्चदश भागान् समान् कृत्वा अर्थात् तिर्यमानी पार्श्वमानी वा पञ्चदशधा विभज्य तत्तद्विभागान्तेभ्यः सूत्रप्रसारणेन पञ्चदशांशतिर्यङ्मानीकानि समचतुरस्रभुजपार्श्वमानोकानि पञ्चदश चतुरस्राणि उत्पाद्य तत्र द्वौ भागौ उक्तदीर्घपञ्चदशचतुरस्र चतुरस्रद्वयमेकसमासेनसमस्य समचतुरस्रीकुर्यात्, स पुरुषः = तत्पुरुषप्रमाणमित्यर्थः । अत्र पञ्चदशांशोऽष्टाङ्गुलविस्तारं विंशत्यधिकशताङ्गुलदीघ क्षेत्रं दीर्घचतुरस्त्रात्मकं भवति । तद् द्वयं समचतुरस्त्रीकृतपुरुषप्र. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70