Book Title: Shulb Sutram
Author(s): Katyayan Maharshi
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 47
________________ ३६ [ कं. ५ सवृत्ति-कात्यायन-शुल्बसूत्रे क्षेत्रदर्शनम् - - एककर्णानां द्विकर्णानां च समचतुस्रेऽपच्छिद्य ॥१०॥ एककर्णानां = तुल्यकर्णानां पञ्चानां व्यस्त्रीणां प्रउगेऽपच्छिद्योक्त. रीत्या समासः। द्विकर्णानां च समचतुरस्र वृद्धकरणीमपच्छिद्य नाना प्रमाणेत्युक्तविधिना समासः कार्यः ॥ १०॥ इति शुल्कवृत्तौ चितिनिरूपणी चतुर्थी कण्डिका ॥४॥ "द्विपुरुषां रज्जु मित्वा" ( १६।८) इत्यादिना प्रथमाग्निक्षेत्रस्य सप्तविधस्य साधनं श्रौतसूत्रे उक्तम् । अतोऽत्र द्वितीयादिषु अष्टवि. धाद्यग्निक्षेत्रेषु पुरुषाभ्युच्चयं वक्तुमुपक्रमते उत्तरेषु पुरुषोचयेनैकशतविधादित्येतद्रक्ष्यामः ॥१॥ __ श्रौतसूत्रे (१६।८।१ ) सार्द्धसप्तपुरुषात्मकमग्निमुक्त्वा “उत्त. रेषु पुरुषोच्चयेनैकशतविधात् ” (१६।८।२०) इति यदुक्तम् , एतत्पुरुषोच्चयविधानं विविच्य कथयिष्यामः । उत्तरेषु द्वितीयादिषु चयनेषु एकशतविधान्तेषु एकैकपुरुषवृद्धया अग्निक्षेत्र निर्मातव्यम् । तत्राद्योऽग्निः सार्द्धसप्तपुरुषक्षेत्रफलकः सप्तविधः । द्वितीयोऽष्टविधः, तृतीयो नवविधः, इत्यायेकशतविधपुरुषपर्यन्तं पञ्चनवतिः। अश्व. मेधे च द्वावन्यौ द्विगुण-त्रिगुणसंज्ञो वक्ष्यमाणौ । एवं सप्तनवतिरनि. चयनभेदाः। एवं पुरुषोच्चयो य उक्तस्तं वश्यामः (१) ॥ १॥ (१)। द्वितीयादिषु चयनेषु पञ्चनवतितमचयनं यावत्प्रतिचयमेकैकपुरुष. वृद्धयाऽग्निक्षेत्रस्य मानं कर्तव्यम् । प्रथमपुरुषे सार्द्ध सप्तपुरुषप्रमाणमग्निक्षेत्रम्, द्वितीये अष्टपुरुषप्रमाणं, तृतीये नवपुरुषप्रमाणम, एवं पञ्चनवतितमे चयने एकाधिकं शतं पुरुषा भवन्ति। अर्धपुरुषमानं तु सर्वत्राधिकास्त्येव । इदमेव विशेषशब्देन अधिमानशब्देन च व्यवहियते । तस्यापि प्रतिचयनं स्वसप्तमभागेन वृद्धिर्भवत्येव । अन्तिमे चयने तस्याप्येकोत्तरशतं स्वसप्तमभागा भवन्ति । अग्निक्षे. त्रवदेव द्वितीयादिषु चयनेषु वेदिप्रमाणमपि वर्द्धनीयम् । इष्टकानां च सर्वासां प्रमाणं वर्द्धनीयम्, न तु तासां सङ्ख्याधिक्यमाश्रित्य क्षेत्रपूरणम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70