Book Title: Shulb Sutram
Author(s): Katyayan Maharshi
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 33
________________ सवृत्ति - कात्यायन-शुल्बसूत्रे - दीर्घचतुरस्रस्य समचतुरस्त्रीकरणोपायमाह - दीर्घ चतुरस्र० समचतुरस्र चिकीर्षन्मध्ये तिर्यगपच्छिद्यान्यतरद्विभज्येतरत्पुरस्ताद्दक्षिणतश्चोपदध्या च्छेषमागन्तुना पूरयेत्तस्योक्तो निर्ह्रासः || २ || श्रत्र श्रयामार्द्ध विस्तारं चतुरस्रं दीर्घचतुरस्रपदेन व्यवहियते । दीर्घचतुरस्रं - विस्तारद्विगुणायामं चतुरस्रं समचतुरस्र कर्तुमिच्छन् मध्ये तिर्यग्ररज्जुं प्रसार्यापच्छिद्य = विभज्य श्रायामस्य तुल्यं भागद्वयं कृत्वा (तद्भागचिह्नात् तिर्यङ्मानीसूत्र प्रसारणेन द्वे समचतुरस्त्रे कृत्वा) अन्यतरद् विभज्य = तत्र एकतरस्य समचतुरस्रस्य पुनस्तथैव भागद्वयकरणेन द्वे दीर्घचतुरस्रे विधाय, इतरत् = भागद्वयं पुरस्ताद्दक्षिणतश्चोपदध्यात् = एकं भागं दीर्घचतुरस्ररूपं पूर्वत्र श्रविभक्तसमचतुरस्त्रे तिर्यगायामं कृत्वा योजयेत्, अन्यं भागं दक्षिणस्यां प्रागा· यामं कृत्वा योजयेत् शेषम् समचतुरस्त्रे क्रियमाणे न्यूनमाग्नेय कोण गतमष्टमांशमागन्तुना = अध्याहृतेनाष्टमांशेन पूरयेत् । २२ " = [ कं. ३ नन्वेवं समचतुरस्रमधिकं जातम्, अष्टमांशस्याध्याहृतत्वात्, श्रत श्राह तस्योक्तो निर्ह्रासः - तस्यागन्तोरंशस्य निर्ह्रासः = त्यागः कार्यः, स च त्यागप्रकार उक्तः "चतुरस्राच्चतुरस्त्रं निर्जिहीर्षन्” इति सूत्रे ( ३९ ) । 1 यथा— श्र. इ. उ. क. दीर्घसमचतुरस्रमास्ते । श्र. इ. दैर्ध्य - रेखायाः ख. बिन्दौ भागद्वयकरणेन, ततश्च ख. ङ. रेखाकरणेन च - क. ख., ङ. ई, इति समचतुरस्रद्वयं जातम् । तत्र ङ. ई. समचतुरस्त्रस्य ग. बिन्दौ तथैव भागद्वयकरणेन ङ. ग. घ. इ. इति दीर्घचतुरस्रद्वयं जायते । ततः घ. इ. दीर्घचतुरस्रं श्र. छ. रूपेण निवेशितं यथा श्र. च. रेखा अ. क. रेखा एकैव भवेत् । एवं सति ख. छ. ख. ङ, रेखाऽपि एकैव स्यात् । ततः च. छ., ग. घ. रेखयोः ख. मार्गे वर्द्धनेन क. च. प. घ. समचतुरस्रं जातम् । यत्र " रस्स्रतिर्यङ्मानीभागः सोऽपच्छेदः = त्यक्तभ्यः, सा करणी = त्रिकोणान्तःपाती तिर्ययानीभागः करणी, तया करण्या कृतमन्यच्चतुरस्रं ह्रस्वक्षेत्रे महतः पृथक्कृते शेणंक्षेत्रं भवति । एष निर्ह्रासः = महत्क्षेत्राद् हस्वस्य पृथक्करणोपायः" इति महीधर व्याख्या । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70