Book Title: Shulb Sutram
Author(s): Katyayan Maharshi
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 29
________________ १८ सवृत्ति-कात्यायन-शुल्बसूत्रे- [कं. २ अायामः = पार्श्वमानीत्वेन प्रसार्य; एवं क्षेत्रे त्रिकोणे कृते तस्य क्षेत्रस्यादणयारज्जुः त्रिकरणी स्यात्, हस्तमात्राणि त्रीणि चतुरस्राणि सक्षिपतीत्यर्थः (१)॥१४॥ त्रिकरणीकथनस्य प्रयोजनमाह तृतीयकरण्येतेन व्याख्याता ॥१।। एतेन त्रिकरणीकथनेन तृतीयकरणी अपि व्याख्याता। "प्रक्रमतृतीयेनावृत्तेन” ( १६।२।२) इति सौत्रामण्यामुक्तम् । तत्र प्रक्रमस्य तृतीयो भागः प्रक्रमतृतीयं न भवति, किन्तु या करणी प्रक्रमक्षेत्रतृतीयांशं समचतुरस्रं करोति, सा प्रक्रमतृतीयशब्देनोच्यते, सैव तृतीया करणी। "वितृतीये यजेत" वितृतीयं वै सौत्रामणी" इति श्रूयते। तत्र तया तृतीयकरण्या प्रक्रमत्वेन कल्पितया या वेदिर्मीयते सा सोमवेदेस्तृतीयांशरूपा स्यात् (२) ॥१५॥ एवं त्रिकरणोकथनेन कथं तृतीयकरणी व्याख्यातेति स्पष्टयितुं सूत्रत्रयेणाह प्रमाणविभागस्तु नवधा ॥ १६ ॥ प्रमाणस्य = प्रक्रमरूपस्य विभागो नवधा विधेयः। "द्वादशागुलं पदम्" "द्विपदः प्रक्रमः” (श्लो. शु. ३४)। प्रक्रममितया रज्ज्वा क्षेत्रं चतुरस्रीकृत्य, तस्य तिर्यङ्मान्यौ पार्श्वमान्यौ च त्रेधा विभज्य, पूर्वापरायतं दक्षिणोत्तरायतं च सूत्रद्वयं दद्यात् । एवं नवधा विभागो भवति । एकैको भागः पदपदक्षेत्रकलकः स्यात् ॥ १६ ॥ करणीतृतीयं नवभागः ॥१७॥ (७)महीधरः “यथा-हस्तमिता तिर्यमानी, किंचिदुनचतुर्विंशदगुलामता, पार्श्वमानी, तयोरग्रं प्रापिता कर्णरज्जुस्त्रिकरणी त्रिहस्तक्षेत्रस्य करणी साधिका। तया साधितं समचतुरस्त्रं त्रिहस्तं भवतीत्यर्थः।" (२) अत्र प्रक्रमशब्देन प्रक्रमपरिमितस्थलमापिका रजुरभिधीयते, न तु प्रक्रमः । तदुक्ती प्रक्रमस्य विभागकरणमेव प्रामुयात् । स च दैर्घ्य विस्तारे चोभयत्र कर्तव्यो भवतीति नवमांशे पर्यवस्यति । तत्र च यागानुष्ठानं प्रामयात् । तत्त नेष्टम् । अतः प्रक्रममितं यत्क्षेत्रं, तस्य यस्तृतीयोऽशस्तन्मापिका या रजुस्तया मानं कृत्वोत्तरवेदिनिष्पादनीयेति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70