Book Title: Shulb Sutram
Author(s): Katyayan Maharshi
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 28
________________ कं. २] चतुरस्रादिक्षेत्रकथनम् । द्विकरणीसाधने प्रकारान्तरमाहकरणीं तृतीयेन वर्धयेत्तच्च स्वचतुर्थेनात्मचतुस्त्रिठशोनेन सविशेष इति विशेषः ॥ १३ ॥ करणी = क्षेत्रायामं तृतीयेन = स्वतृतीयांशेन वर्धयेत् , तदिति सामान्ये नपुंसकम् । तत् = तं तृतीयांशं स्वचतुर्थेन = स्वस्य तृतीयां शस्य यश्चतुर्थो भागः, तेन वर्धयेत् । किं भूतेन स्वचतुर्थेन, आत्मचतुस्त्रिंशोनेन = आत्मनः = चतुर्थांशस्य यश्चतुस्त्रिंशोभागः, तेन ऊनेन = हीनेन रहितेन, अर्थात् स्वचतुस्त्रिंशांशहीनचतुर्थभागेन तृतीयांशं वर्धयेत् । सविशेषो = भेदकः, करणी-द्विकरण्योरिति विशेषः । द्विक. रणीसाधकं प्रकारान्तरमित्यर्थः (१) ॥ १३ ॥ त्रिकरणीसाधनमाहप्रमाणं तियाग्दिकरण्यायामस्तस्याक्षणयारज्जुस्त्रिकरणी॥१४॥ त्रिगुणीकर्तुमिष्टस्य क्षेत्रस्य करणी प्रमाणशब्देनोच्यते । प्रमाणं = त्रिगुणीकर्तुमिष्टस्य क्षेत्रस्य करणीरूपं, तिर्यक् = तिर्यमानीत्वेन प्रसार्य, द्विकरणी = पूर्वोक्तं द्विकरणीमानम् एकहस्तस्यादणयारूपम् (१)अत्र रामवाजपेयिनः। "यथा-द्वादशाङ्गलकरणीकं समचतुरस्रं द्विगुणीकर्तुमिष्यते, तस्य करणी तृतीयांशेन वर्द्धितषोडशाङ्गला भवति । स च तृतीयोऽशचतुरङ्गलात्मकः स्वकोयतुरीयांशेनाङ्गलेन स्वचतुस्त्रिंशभागेन वर्द्धनीयः। अत्राङ्गलस्य उदरदेशमिताश्चतुस्त्रिंशत्तिला अवयवाः कथ्यन्ते। तत्र तिलोनसप्तदशाङ्गुला द्विकरणी भवति । या पूर्व समचतुरस्रस्याक्ष्णया द्विकरणी उक्ता, सा कियती भवतीति स्वरूपज्ञापनार्थमिदं सूत्रम्" इति। महीधरः । “यथा-हम्तमितसमचतुरस्रस्य करणी चतुर्विशत्यङ्गलरूपा। मा च द्विगुणीक्रियते यदा, तदा तां तृतीयांशेन वर्धयेत् । चतुर्विशतेस्तृतीयांशोऽष्टावङ्गलानि, एवं द्वात्रिंशदङ्गलानि जातानि । स तृतीयांशोऽष्टाङ्गुलात्मकः स्वचतुर्थेनाङ्गलद्वयेन पुनर्वद्धितः, तदा चतुस्त्रिंशदङ्गलानि । स्वचतुर्थेन कोद्रशेन-आत्मचतुस्त्रिंशोनेन । एवमगुलद्वयस्य चतुस्त्रिंशो भागो यूकात्रयं लिक्षाषट्कं किंचिदूनं बालागं च, तावता होनेनाङगुलद्वयेन तृतीयो भागो वर्द्धितः। एवं च द्विहस्त करण्येतावती सम्पन्ना-त्रयस्त्रिंशदङ्गुलानि, सप्त यवाः, चतस्नो यूकाः, द्वेलिले, किंचिन्न्यून बालाग्रमिति । किं बहुना-तिलद्वयोनानि चतुस्विंशदङ्गलानि द्विहस्तकरणीत्यर्थ" इति। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70