Book Title: Shulb Sutram
Author(s): Katyayan Maharshi
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 26
________________ १५ वेदिकथनम् । कं. २] सोमयागे - " यजमानंदशपद्यां वा" ( ५/३ ) इत्यनेन दशपदा उत्तरवेदिर्भवतीत्युक्तम् । श्रत्र तस्या वेदेः करणीमाह - पदं तिर्यङ्मानी, त्रिपदा पार्श्वमानी, तस्थादयारज्जुर्दशकरणी ॥ ८ ॥ = यस्य क्षेत्रस्य तिर्यङमानी दक्षिणोत्तरायता रज्जुः पदम् = एकपदपरिमिता श्रर्थाद् द्वादशाङ्गुलप्रमाणा भवति, पार्श्वमानी च त्रिपदा = पदत्रयपरिमिता सार्द्धहस्तायता भवति, तस्यादणयारज्जुः दशकरणी = दशपदक्षेत्रफलकस्य चतुरस्रस्य करणी = निष्पादिका किञ्चिदधिकषट्त्रिंशदङ्गुलरूपा भवति, तस्यादण्यारज्वा दशपदफलकं क्षेत्रं निष्पाद्यत इत्यर्थः ॥ ८ ॥ श्रग्नौ चत्वारिंशत्पदा उत्तरवेदिर्विहिता, तत्साधनमाहद्विपदा निर्यङमानी, षट्पदा पार्श्वमानी, तस्यादण्या रज्जुश्चत्वारिंशत्करणी ॥ ६ ॥ यस्मिन् क्षेत्रे तिर्यङ्मानी दक्षिणोत्तरा रज्जुर्द्विपदा, पार्श्वमानी = प्रागायतं सूत्रं च षट्पदा, तस्यादणयारज्जुः = कोणसूत्रं चत्वारिंशत्करणी = चत्वारिंशत्पद क्षेत्रफलकस्य चतुरस्रस्य साधिका सत्र्यंशपदषट्कमिता भवति, तया रज्वा निष्पादितं क्षेत्रं चत्वारिंशत्पदफलकं भवतीत्यर्थः ॥ ६ ॥ H उत्तरवेदिः षडविधा - शम्यामात्री, वितृतीया, अपरिमिता, युगमात्री, दशपदा, चत्वारिंशत्पदा चेति । तत्रान्त्ये वेदी उक्त श - हा वितृतीया चोत्तरवेदिवेदेः क्षेत्रफलतृतीयांशेन भवति । अपरिमिता च " अपरितं प्रमाणाइ भूयः " (का० शु० १।२३ ) इत्यनेनावगता | शम्यामात्री युगमात्री चेत्यवशिष्टं (१) वेदिद्वयप्रमाणं " षडशीतियुगम्, चत्वारोऽष्टकाः शम्या" ( का०शु० २२४ - ५ ) इति सूत्राभ्यां रथमात्रवेदीप्रसङ्ग एवोक्तमित्याह उपदिष्टं शम्याप्रमाणं च युगप्रमाण० दर्शनात् ॥ १० ॥ (१) सोमे चयने च युगमात्री उत्तरवेदिः श्रूयते, (५।३।३०) शम्यामात्री च वरुणघासे (५।३।२९) । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70