Book Title: Shulb Sutram
Author(s): Katyayan Maharshi
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 23
________________ १२ सवृत्ति-कात्यायन-शुल्बसूत्रे- [कं. २ वनीययोरन्तरालमितां रज्जु षडा सप्तधा वा कृत्वा तावन्तमपरं भागं संव_ त्रेधा विभज्य पाहवनीयसनिकृष्टतृतीयभागकृतचिन्हे. नोदगाकृष्य तच्चिह्नस्पृष्टभूभागे उत्करः कार्यः, उत्करमध्यं कार्य मित्यर्थः। परिसमूहिततृणधूलिपुञ्ज उत्करः, तत्स्थानं कार्यम् । तञ्च ज्यङ्गुलकर्काटकभ्रामणेन वृत्तमेकाङ्गुलगर्तवञ्च कार्यम् ॥२८॥ पक्षान्तरमाहअपि वाऽन्तरत्रिभागोनया रज्ज्वा पूर्वार्द्ध सम चतुरस्रं कृत्वा श्रोण्यामग्निः ॥ २६ ॥ अपि वा = अथवा अन्तरे = गार्हपत्याहवनीययोर्मध्ये या रज्जुः, सा त्रिभागेन स्वतृतीयांशेन ऊना कार्या। तया च करण्या पाहवनीयमध्यात्प्रत्यक् समचतुरस्त्रं कर्त्तव्यम् । तस्य चतुरस्रस्य श्रोण्यां = दक्षिणश्रोण्यामग्निः = दक्षिणाग्निः कार्यः, तन्मध्यं कार्यमित्यर्थः। अत्राष्टप्रक्रमाधानपक्षे प्रक्रमस्य च पादमात्रत्वकरणे दक्षिणाग्निखरस्य अर्द्धचन्द्राकृतेररनिमात्रस्य परिशिष्टोक्तस्य पूर्वाग्रं वेदिमध्ये पततीति गाहपत्यखरपूर्वभागादष्टसुपादेषु पाहवनीयखरपश्चिमभागः कर्तव्यः । एकादश-द्वादशपरिमितप्रक्रमपक्षे तु गार्हपत्याहवनी. ययोरन्तरमेव तावन्मातव्यम् ॥ २६ ॥ विपर्यस्योत्तराईस उत्करः ॥ ३०॥ विपर्यस्य = वैपरीत्येन चतुरस्त्रं कृत्वा तस्य चतुरस्रस्योत्तरांसे उत्करः कार्यः। विपर्यासवचनात्पश्चिमाद्धे गार्हपत्यमध्यात्पुरस्तादग्निद्वयान्तरालमितरज्वो स्वत्रिभागोनया करण्या चतुरस्रं कर्त्तव्यं, तदुत्तरांसे चोत्करः कार्यः ॥ ३०॥ इति प्रथमा कण्डिका ॥१॥ चातुर्मास्ययागे वरुणप्रघासाख्ये द्वितीयपर्वणि दक्षिणोत्तरे द्वे वेदी भवतः, तत्र दक्षिणा प्रतिस्थातुः, उत्तरा अध्वर्योः (का. श्री. ५।४।३२) । तत्र उत्तरवेदेः प्रमाणं "रथमान्युत्तरा" इति (का. श्री. सू. ५।३।११) रथात्मकमुक्तम् । रथमानं च तत्र नोक्तम् । अत आह Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70