Book Title: Shulb Sutram
Author(s): Katyayan Maharshi
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 21
________________ १० सवृत्ति-कात्यायन-शुल्बसूत्रे- [कं. १ दिना, अनवस्थाप्रसङ्गात् । तेन "द्वादशदीक्षा अपरिमिता वा" इत्यत्र त्रयोदश दीक्षा अपरिमितशब्दार्थः । एवं सर्वत्रोह्यम् ॥२३॥ एवं सर्वत्र प्राप्तौ व्यवस्थामाहप्रमाणे शास्त्रं प्रमाणं निहासविवृद्धयोः ।। २४ ।। प्रमाणे = मानेऽपेक्षिते (शुल्ब ) शास्त्रमेव प्रमाणं नान्यत् ।' यथा-"पञ्चारनिः पञ्चदशपर्यन्तः सोमे" ( का. श्री. ६।१।२६) इत्यादिना यूपस्यारनिना परिमाणमुक्तं ज्योतिष्टोमे, अश्वमेधे च “एकविठशतिरश्वमेधे" ( का. श्री. ६।१३२) इति, अत्र यूपपरिमाणस्य वृद्धौ हासे च शास्त्रोक्ते एव ह्रासवृद्धी ग्राह्ये, न स्वे. च्छया । यथा वाऽष्टविधादिचयने पुरुषमात्राभ्युच्चयेन वृद्धिः । यथा च सौत्रामणीवेद्यां सौमिकीवेदीतो ह्रासः । अयं च हासःप्रक्रमतृतीयमानेनैव कार्य इति वक्ष्यते (२०१५) ॥ २४ ॥ योगश्च ॥ २५ ॥ योगो नाम युक्तिः, साऽप्याश्रयणीया । युक्त्या ह्रासवृद्धी विधेये, नाधिकन्यूने (१) ॥ २५॥ दक्षिणाग्निस्थानमाह सूत्रयुग्मेनइतरस्य वितृतीये दक्षिणत इत्येतदक्ष्यामः ।।२६।। "इतरस्य वितृतीये दक्षिणतः” ( का०श्रौ० ४१८) इति दक्षिणाग्निं प्रकृत्योक्तम् , तद् विविच्य वक्यामः । अग्निहोत्र. शोलायां पश्चिमभागे गार्हपत्यस्थानं सार्द्धत्रयोदशाङ्गुलकर्काटकभ्रा मणेन वृत्तं (२) निर्माय तन्मध्यात् पुरस्तात् एकादशप्रक्रमव्यव (1) अत एव चतुर्भागादिवृहत्यन्सानामिष्टकानां न तुल्यो हासः। तत्र योगो युक्तिरेव प्रमाणम् । अत एव देवयाज्ञिकैरिष्टकानिर्माणपद्धतौ पुरुषे पुरुष. द्वात्रिंशांशं वर्द्धयित्वा तत इष्टकायन्त्रनिर्माणमभिहितम् । (२) "परिमण्डलधिष्ण्यं गार्हपत्यस्य, चतुरस्र माहवनीयस्य । अर्द्धचन्द्र इव दक्षिणाग्नेः, सभ्यावसथ्ययोर्गार्हपत्यवत्" इति (निग० प०)। कर्काचार्यास्तु "अन्यन्वाधानमध्वर्युर्यजमानो वा” (२०१२) इति सूत्रे आहवनीयप्रमाणं बाहुपरिमितमाहुः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70