Book Title: Shulb Sutram
Author(s): Katyayan Maharshi
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 15
________________ __. सवृत्ति-कात्यायन-शुल्बसूत्रे [ कं. १ मानाथं गृहीतायां रजवां चिन्हस्थानान्याहश्रोण्यस-निरन्छन-सङख्यासमासभङ्गोषु लक्षणानि॥५॥ वेद्यादेनैर्ऋत्य-वायव्यकोणौ श्रोणी, आग्नेयैशानकोणावंसावुच्येते। निरञ्छनं वक्ष्यमाणलक्षणम् (१।१२)। सङ्ख्ययोः प्रमापरज्वभ्यासरज्वोर्यः समासः = संयोग एकीकरणम्, तस्य भङ्गो = विभागः संख्यासमासभङ्गः । अर्थाद् द्विगुणरज्वा मध्ये यो बिन्दुः स एव सङ्ख्यासमासभङ्गपदवाच्यः । इष्टक्षेत्रायाममिता रज्जुः, तावत्परिमाणा द्वितीया रज्जुरभ्यासरज्जुरित्युच्यते । श्रोणी च अंसौ च निरञ्छनं च सङ्ख्यासमासभङ्गश्च, तेषु लक्षणानि = चिन्हानि कुर्यात्। अत्र श्रोण्यादिपदानि श्रोण्यादिमापकरज्जुपराणि। तेन क्षेत्रमानार्थ क्षेत्रद्विगुणां रज्जुमादाय तत्र श्रोणिचिह्नम् , अंसचिह्न, निरञ्छनचिह्न सङ्ख्यासमासभङ्गचिह्नं च कुर्यादित्यर्थः ॥ ५ ॥ प्राच्यन्तयोः शङ्क् निहन्ति ॥ ६ ॥ प्राची पूर्वा दिक् । अन्तः प्रतीची । प्राची च अन्तश्च प्राच्यन्तौ, तयोः शङ्क निहन्यात् । इष्टक्षेत्रे यावती प्राची इष्यते, यथा-दर्शपौर्णमासवेदिः "ध्यरनिं प्राचीम्" (२।६।१) इत्यनेन त्र्यरनिदी. र्घा विहिता, यथा च ज्योतिष्टोवेदिः “पुरस्तात्षत्रिशति" (३८) इति षट्त्रिंशत्प्रक्रमदीर्घा विहिता, तत्र सर्वत्र तावत्याः पूर्वापरान्तयोः शङ्क निखनेदिति भावः (१) ॥ ६ ॥ कोणेषु शङ्कनिखननमाह श्रोण्यठ सयोश्च ॥ ७॥ श्रोणिद्वयेऽसद्वये च शङ्क निखन्याद्वक्ष्यमाणविधिना । सर्वत्र क्षेत्रमापने कोणेषु शङ्कुनिखननमिति भावः ॥ ७ ॥ (१) "समे शङ्क निखाय" (१२) इत्यादिना यत्प्राच्यन्तयोः शङ्कनिखननमुक्तं तत्प्राचीसाधनार्थम् । अत्र पुनरन्यत्रापि इष्टक्षेत्रे प्राच्यन्तयोः शङ्कद्वयं निखेयमित्येतदर्थमिदमुक्तम् । अतो न पुनरुक्तिः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70