Book Title: Shrutsagar 2015 01 02 Volume 01 08 09
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
खरतरगच्छीय महोपाध्याय श्रीगुणविनयगणिविरचितटीकालङ्कृतम् _पूज्याचार्य श्रीमानदेवसूरिविरचितं
'श्रीलघुशान्तिस्तोत्रम्'
स्मृत्वा श्रीश्रुतदेवीं, कविविश्रुतकीर्तिमस्तमितदोषाम् । श्रीशान्तिनाथमथशान्ति-निकरकरं मानसे कृत्वा ||१|| श्रीजयसोमोपाध्याय-गुरून् गुरुगौरवं नमस्कृत्य।
वच्मि श्रीशान्तिस्तव-वृत्तिं लेशेन शुभवृत्त्या ।।२।। [युग्मम्] तत्रादौ श्रीशान्तिस्तवोत्पत्तिः प्रतिपाद्यते
पुराऽस्मद्गच्छे श्रीमानदेवसूरयो बभूवुः । एकदा नडूलनगरे ते चतुर्मासी तस्थुः । तस्मिन्नेव समये शाकम्भरीपुरे श्रीसङ्घः शाकिनीमरकोपद्रवेणाऽत्यर्थं व्यथितः । तदा सङ्घन विमृश्य महाप्रभावक-श्रीमानदेवसूरीणां सविधे मनुजप्रेषणेन विज्ञप्तिर्विदधे'यथाऽत्र मरकोपद्रवोऽस्ति, तद्वारणाय कश्चिदुपायो विधेयः। ततो मानदेवसूरिभिः श्रीसङ्घोपद्रववारणायऽयं श्रीशान्तिस्तवः प्रेषि। ततः तत्पठनात् तद्भवणाच्च शान्तिरुत्पेदे। एवमस्य शान्तिस्तवस्योत्पत्तिः। उक्तं चाऽस्मद्गच्छीयपूर्वगुरूणामवदातेषु'नड्डूलनामनगरे कृतमेघकालैः, शाकम्भरीपुरसमागतसङ्घवाचा। शान्तिस्तवः प्रबलमारिभयापहारी,
यैर्निर्ममे सुविहितक्रममार्गदीपैः ।।१।।' [ ] अथ शान्तिस्तवव्याख्यातुमाह
शान्तिं शान्तिनिशान्तं, शान्तं शान्ताशिवं नमस्कृत्य। स्तोतुः शान्तिनिमित्तं, मन्त्रपदैः शान्तये स्तौमि ।।१।।
व्याख्या-'अहम्' इत्यस्मत्प्रयोगोऽनुक्तोऽप्याऽऽक्षिप्यते। अहं मन्त्रपदैः - मन्त्राःदेवादिसाधनानि, देवादयः साध्यन्तेऽनेन देवादिसाधनम्, महाबीजादीत्युक्तेः, तेषां पदानि-वाक्यानि। यदनेकार्थः- 'पदं स्थाने विभक्त्यन्ते, शब्दे वाक्येङ्कवस्तुनोः।
For Private and Personal Use Only

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82