Book Title: Shrutsagar 2015 01 02 Volume 01 08 09
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba

View full book text
Previous | Next

Page 28
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SHRUTSAGAR 26 January-February-2015 त्राणे पादे पादचिह्ने, व्यवसायापदेशयोः ।' [ अनेकार्थसङ्ग्रह, २/२३२] इति । तैः, शान्तये शान्तियोगात् तदात्मकत्वात् तत्कर्तृत्वाच्च शान्तिः, तस्मै - श्रीशान्तिनाथाय, अर्थवशाद्विभक्तिपरिणामे शान्तिं स्तौमि वर्णयामि । यत् क्रियाकलापे - स्तवने नौति स्तौति, प्रशंसति श्लाघते च वर्णयति । इट्टे कवयति कवते, विकत्थते चाभिनन्दति च ।।' [ ] इति । किं कृत्वा ? शान्तिं - श्रीशान्तिनाथं नमस्कृत्य - प्रणिपत्य । किं विशिष्टं शान्तिम्? शान्तिनिशान्त - शाम्यत्यशुभमनया, शमनं वा शान्तिः, शम्यादित्याशास्यमाना वा, 'तिक्कृतौ नाम्नि [सिद्धहेम ५।१।७१] इति तिक्, शान्तिः - भद्रम् । यदनेकार्थः-‘शान्तिर्भद्रे शमेऽर्हति' [ अनेकार्थसंग्रह, २/२०४ ] भद्रशमयोः स्त्रियाम्, अर्हति पुंसि, तस्या निशान्तं- सदनम् । यदनेकार्थः- 'निशान्तं सदने शान्ते, प्रभातेऽपि [अनेकार्थसंग्रह, ३-२८६ ] पुनः किम्भूतम् ? शान्तं - दान्तम्, शाम्यति स्म शान्तः । यदनेकार्थः- 'शान्तो दान्ते रसान्तरे [ अनेकार्थसंग्रह, १८ / २०३] दान्ते - निवृत्तविषये वाच्यलिङ्गः । पुनः किम्भूतम् ? शान्ताशिवं शान्तानि - उपशान्तानि - निवृत्तान्यशिवानिअकल्याणानि यस्मात् सः, तम् । गर्भस्थेऽस्मिन् पूर्वोत्पन्नाऽशिवशान्तिरभूदिति । किमर्थम्? स्तोतुः-स्तवनकर्तुः, उपलक्षणत्वात् श्रोतुश्च शान्तिनिमित्तंकल्याणहेतोः । यद्वेत्थं पदयोजना कार्या-शान्तिं नमस्कृत्य स्तौमि प्रकरणात् शान्तिमेव । कस्यै? स्तोतुः शान्तये शान्त्यर्थम् । तत्र हेतुगर्भितं विशेषणमाह । किम्भूतं शान्तिम् ? शान्तिनिमित्तं - शान्तिकारणम् । इति प्रथमपथ्यार्यार्थः ।।१।। ओमिति निश्चितवचसे, नमो नमो भगवतेऽर्हते पूजाम् । शान्तिजिनाय जयवते, यशस्विने स्वामिने दमिनाम् ||२|| पथ्या ।। व्याख्या- शान्तिजिनाय नमो नमः । ननु 'नमो नमः' इति पौनरुक्त्यं दोष इति चेद्, न्, हृतचित्तः सन् यत्पद - मेकस्मिन्नेवार्थे पुनः पुनर्वक्ति तत्र पुनरुक्तत्वं दोषाय न भवति, अपित्वलङ्कारायेति । तथा च रुद्रटः- 'वदवदेत्यादि जयजयेत्यादि' तत्र वद-वदेति हर्षे, तव - तवास्मीति भये, चित्रं चित्रमिति विस्मये, हा-हेति शोके, जय-जयेति स्तुतौ कुरु-कुर्विति त्वरायाम्, धिग्- धिगिति निन्दायाम्, दिशिदिशीति विप्सायां-सर्वस्यां दिशीत्यर्थः, वारं वारमिति लोकप्रसिद्धम् - इत्यादिवदत्र न पौनरुक्त्यदोषः, [काव्यालंकार, अध्याय ६, श्लोक ३० - ३३] यद्वा प्रर्षे द्विवचनम् । · किम्भूताय शान्तिजिनाय ? ओमिति निश्चितवचसे 'ओम्' इति ओमिति सकलप्रामाणिकजनैः प्रमाणत्वेनाऽङ्गीकृतस्वरूपम्, निश्चितं - निश्चयः, भावे क्तः, For Private and Personal Use Only

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82