Book Title: Shrutsagar 2015 01 02 Volume 01 08 09
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SHRUTSAGAR
32 January-February - 2015 - हे भक्तानां - सेवाकर्तृणां जन्तूनां - प्राणिनां शुभावहे-शुभं-कल्याणमावहयतिकारयति स्वसेवकैरिति शुभावहा। आङ् पूर्वकस्य वहतेः करोत्यर्थता। तस्याः सम्बोधने-शुभावहे!
तथा हे सम्यग्द्रष्टिनां-सम्यक्त्ववतां धृतिरतिमतिबुद्धिप्रदानाय-धृतिश्च-धैर्य, सुखं सन्तोषो वा, रतिश्च रागः धर्मकरणेऽनुरागः, मतिश्च सत्पथाऽनुसरणे इच्छा, बुद्धिश्च धीः, तासां यत्प्रदानम्, तस्मै धृतिरतिमतिबुद्धिप्रदानाय। नित्यं-सततम् उद्यते! सावधाने! 'धृतिर्योगविशेषे स्याद्, धारणा-धैर्ययोः सुखे। सन्तोषाध्वरयोश्चाऽपि... ।।१।। (अनेकार्थसंग्रह, २/१७८] रतिः स्मरस्त्रियां रागे रते [अनेकार्थसंग्रह, २/ १९४] मतिर्बुद्धीच्छयोः [अनेकार्थसंग्रह, २/१८९] इत्यनेकार्थः।
तथा जगति-विश्वे जन्तूनां श्री-सम्पत्-कीर्ति-यशोवर्द्धनि! श्रीश्च कमला, सम्पच्च सम्पत्तिः, तयोः कीर्तिः-विस्तारः, यद्वा- 'दानपुण्यभवा कीर्तिः, पराक्रमकृतं यशः । एकदिग्गामिनी कीर्तिः, सर्वदिग्गामुकं यशः [ ] इति, तानि वर्द्धयति-पल्लवयतीति श्री-सम्पत्-कीर्ति-यशोवर्द्धनी, तस्याः सम्बोधने-हे श्री सम्पत्कीर्तियशोवर्द्धनि! 'कीर्तिर्यशसि विस्तारे, प्रासादे कर्दमेऽपि च। [अनेकार्थसंग्रह, २/१६५] इत्यनेकार्थः । श्लोकः कीर्तिर्यशोऽभिख्ये[ ]-इत्युक्तेः कीर्तियशसोरेकार्थत्वेऽयं विशेषः प्रतिपादितः। किम्भूतानां जन्तूनाम्? जिनशासननिरतानां-जिनमताऽऽसक्तानां च-पुनः शान्तिनतानांशान्तये श्रीषोडश-जिनाय नताः-प्रणताः शान्तिनताः, तेषां शान्तिनतानाम्।
अत्रेयन्ति मन्त्रपदानि-'भक्तानां शुभावहे! सम्यग्द्रष्टिनां धृतिरतिमतिबुद्धिप्रदानोद्यते! जिनशासननिरतानां श्रीसम्पत्कीर्तियशोवर्द्धनि! इति [दशमैकादशमपथ्यार्यार्थः] ||१०||११||
सलिलानल-विष-विषधर-दुष्टग्रह-राज-रोग-रणभयतः। राक्षस-रिपुगण-मारि-चौरेति-श्वापदादिभ्यः ।।१२।। अथ रक्ष रक्ष सशिवं, कुरु कुरु शान्तिं च कुरु कुरु सदेति। तुष्टिं कुरु कुरु पुष्टिं, कुरु कुरु स्वस्तिं च कुरु कुरु त्वम् ।।१३।।
उभेऽपि पथ्ये।। भगवति! गुणवति! शिव-शान्ति-तुष्टि-पुष्टि-स्वस्तीह कुरु कुरु जनानाम्। ॐमिति नमो नमो ह्रीं ह्रीं हूँ ह्रः यः क्षः ह्रीं फट् फट् स्वाहा ।।१४।।
व्याख्या अत्र वृत्ते मन्त्रगर्मितत्वेन छन्दोभेदमवसीयते। अथ व्याख्या वितन्यतेअथेति मङ्गलार्थः । हे भगवति! ऐश्वर्यवति! हे गुणवति! वरदत्वदक्ष्यदाक्षिण्यादिगुणधरे!
For Private and Personal Use Only

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82