Book Title: Shrutsagar 2015 01 02 Volume 01 08 09
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba

View full book text
Previous | Next

Page 33
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org जनवरी-फरवरी - २०१५ श्रुतसागर अत्रेयन्ति मन्त्रपदानि‘सर्वसङ्घस्य भद्रकल्याणमङ्गलप्रददे। साधूनां श्रीशान्तितुष्टिपुष्टिदे !' इति ||८|| भव्यानां कृतसिद्धे !, निर्वृतिनिर्वाणजननि ! सत्त्वानाम् । अभयप्रदाननिरते!, नमोऽस्तु स्वस्तिप्रदे! तुभ्यम् ।।९।। 31 Acharya Shri Kailassagarsuri Gyanmandir व्याख्या - अत्रान्तचरणे गुरोरपि लघुता ज्ञेया । पुरत एतदेव स्पष्टीकरिष्यते । अथ व्याख्या विधीयते। हे भगवति! तुभ्यं नमोऽस्तु । अथ विशेषणैः सम्बोधयति - हे भव्यानां कृतसिद्धे ! कृता सिद्धिः - प्रारब्धकार्यनिष्पतिर्यया सा तस्याः सम्बोधने हे कृतसिद्धे ! तथा हे सत्त्वानां-प्राणिनां निर्वृतिनिर्वाणजननि ! निर्वृतिः- सौख्यं, निर्वाणं-मोक्षः, यद्वा सुखमात्रम्, तयोर्जननीव मातेव उत्पादयित्रीत्यर्थः । यद्वा ते जनयतीति जननी, युट्-प्रत्यये रूपम्, तस्याः सम्बोधने - हे निर्वृतिनिर्वाणजननि ! अथ 'निर्वृतिः मोक्षे मृत्य सुखे सौस्थे' [अनेकार्थसंग्रह, ३/२८६] तथा 'निर्वाणं मोक्षनिर्वृत्योः' [अनेकार्थसंग्रह, ३/२२२], तत्र निर्वृतिः सुखमात्रम् [ ] इत्यनेकार्थः । मोक्षदातृत्वमस्याः साक्षान्नघटत इत्यस्वरसादियमर्थघटनाकृतेति(?) । तथा हे अभयप्रदाननिरते!- भयाभावोऽभयम्, तस्य यत् प्रदानं त्यागः, तत्र निरता - आसक्ता, तस्याः सम्बोधने - हे अभयप्रदाननिरते! स्वस्तिप्रदे! स्वस्ति-क्षेमं प्रदतातीति स्वस्तिप्रदा, तस्याः सम्बोधने - हे स्वस्तिप्रदे! यदनेकार्थः- ‘स्वस्त्याशीः -क्षेम - पुण्यादौ [अनेकार्थसंग्रह, परिशिष्टकाण्ड, श्लोक३३] सुपूर्वादस्ते सोरस्तेः शिदिदितौ स्वस्ति, आदिशब्दादविनाशादौ । अत्रेयन्ति मन्त्रपदानि - स्वस्तिदे! भव्यानां कृतसिद्धिवृद्धिनिर्वृतिनिर्वाणजननि! सत्वानामभयप्रदानरते!' इति ।। ९ ।। भक्तानां जन्तूनां शुभावहे ! नित्यमुद्यते ! देवि ! सम्यग्दृष्टीनां धृति-रति-मति बुद्धिप्रदानाय ॥ १० ॥ जिनशासननिरतानां, शान्तिनतानां च जगति जन्तूनाम् । श्री- सम्पत्-कीर्ति - यशो वर्द्धनि ! जयदेवि! विजयस्व ||११|| उभेऽपि पथ्ये [युग्मम्] व्याख्या- हे जयदेवि ! देवि! त्वं विजयस्व - जयवती भव । अथ विशेषणैः सम्बोधयति For Private and Personal Use Only

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82