Book Title: Shrutsagar 2015 01 02 Volume 01 08 09
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
29
श्रुतसागर
29 जनवरी-फरवरी - २०१५ समस्तपापसमूहानां नाशनं-विध्वंसनं करोतीति सर्वदुरितौघनाशनकरः, तस्मै।
पुनः किम्भूताय? सर्वाशिवप्रशमनाय-सर्वाण्यशिवानि-अकल्याणानि प्रशमयतिउपशमयतीति सर्वाशिवप्रशमनः, तस्मै सर्वाशिवप्रशमनाय।
तथा दुष्टग्रहभूत-पिशाचशाकिनीनां प्रमथनाय-दुष्टग्रहाः-सूर्यादयोऽशुभगोचरवर्तिनः, भूतपिशाचाश्च व्यन्तरभेदाः, ते हि प्रायः स्खलितादौ छलनपराः, शाकिन्यश्च दुष्टमन्त्रस्मरणवत्यः स्त्रियः, तासां प्रमथ्नाति-विलोडयतीति प्रमथनः, तस्मै प्रमथनाय।
अत्रेयन्ति मन्त्रपदानि-'सर्वदुरितविनाशनाय सर्वाशिवप्रशमनाय सर्वदुष्टग्रहभूतपिशाच-मारिशाकिनीप्रमथनाय' इति । अत्र मन्त्रे कतिचित् पदान्यर्गलानि न्यूनानि च दृश्यन्ते । तानि सूत्रे कविना छन्दोभङ्गभयान्न लिखितानि। अर्गलानि लिखितानीति सम्भाव्यते। [इति पञ्चमपथ्यार्यार्थः] ।।५।।
यस्येति नाममन्त्र-प्रधानवाक्योपयोगकृततोषा। विजया कुरुते जनहित-मिति च नुता नमत तं शान्तिम् ।।६।। पथ्या।।
व्याख्या-यस्य-श्रीशान्तः इति-उक्तो वक्ष्यमाणश्च यो नामगर्भितो मन्त्रः-नाममन्त्रः, तेन प्रधानं-मुख्यं यद्वाक्यम्, तस्योपयोगेन-स्वसमीपे योजनेन, तत् स्मरणेनेत्यर्थः, कृतः-विहितो जनानां-भव्यजनानां तोषः-सन्तोषः स्वास्थ्यं यया सा एवं विधा विजयादेवी जनहितं-जनानां हितं-पथ्यं कुरुते। 'हितं पथ्ये गते धृते' [अनेकार्थसंग्रह, २/२१४] इत्यनेकार्थः, यल्लक्ष्यम् 'हितं मनोहारि च दुर्लभं वचः [किरात, सर्ग-१/श्लोक-४] च-पुनः, इति-प्रत्यक्षं या नुता-स्तुता कविभिः । 'इति स्वरूपे सान्निध्ये, विवक्षानियमे मते। हेतौ प्रकार-प्रत्यक्ष-प्रकाशेष्ववधारणे ।।' [अनेकार्थसंग्रह, परिशिष्टकाण्ड, श्लोक-२८] 'एवमर्थे समाप्तौ स्याद् अवसाने समर्थे' [अनेकार्थसंग्रह, ३/३२९] इत्यनेकार्थः । अत्र मन्त्रपदं नास्ति, तेन न लिलिखे। [इति षष्ठपथ्यार्यार्थः] ।।६।।
भवतु नमस्ते भगवति! विजये! सुजये! परापरैरजिते। अपराजिते! जगत्यां जयतीति जयावहेभवति! |७।। पथ्या
व्याख्या-हे भगवति! ते-तुभ्यं नमो भवतु। तां भगवती नामभिर्विशेषयति-हे विजये! हे सुजये! अर्थतयोर्विशेषणमाह-किम्भूते? परापरैरजिते-परे चाऽन्ये शत्रवः, अपरे च स्वीयाः, तैरजिते-न जितेऽपराभूते-अजिते।
For Private and Personal Use Only

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82