Book Title: Shrutsagar 2015 01 02 Volume 01 08 09
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
28
SHRUTSAGAR
January-February -2015 सर्वातिशेषकमहासम्पत्तिसमन्विताय । समस्तार्थत्वे अस्वरसत्य(?) सकलाः-सविज्ञाना इति वा व्याख्येयम् । यदनेकार्थः- 'कला स्यात् काल-शिल्पयोः [अनेकार्थसंग्रह, २/४८८] इति। तत्र शिल्पं-विज्ञानमिति, समवसरणे विज्ञानस्य घटमानत्वात्। उपयुक्तेतरे लक्ष्यमदः-'मन्दाकिन्याः पयः शेषं, दिगवारणमदाविलम्' इति [ ]।
पुनः किम्भूताय? शस्याय-प्रशस्याय, प्रशंसायोग्यायेत्यर्थः 'शंसू स्तुतौ सिद्ध. धातु १५५०, पाणि. धातु. १७७४] कृषिवृषीति वाक्येऽपि शस्यम्। तथा चः - समुच्चयार्थः । त्रैलोक्यपूजिताय-'त्रय एव लोकस्त्रैलोक्यम्' इति गणरत्नमहोदधौ, तेन पूजिताय-अर्चिताय | पथ्यार्या ।
अत्रेयन्ति मन्त्रपदानि-'सकलकलातिशेषक-महासम्पत्समन्विताय त्रैलोक्यपूजिताय नमो नमः शान्तिदेवाय' इति [तृतीयपथ्यार्यार्थः] ||३||
सर्वामरसुसमूह-स्वामिकसम्पूजिताय निचिताय । भुवनजनपालनोद्यत-तमाय सततं नमस्तस्मै ।।४।। पथ्या ।।
व्याख्या - सततं-निरन्तरं तस्मै-श्रीशान्तये नमः। यत्तदोर्नित्यसम्बन्धात तच्छब्देन यः पूर्वासु व्याख्यातः तस्मै नम इति।
किम्भूताय तस्मै? सर्वामरसुसमूहस्वामिकसम्पूजिताय-सर्वे च तेऽमरसुसमूहाश्चदेवानां शोभनव्रजाः, तेषां यः स्वामी-प्रभूरिन्द्रः, स्वार्थे कः, तेन सम्पूजितायसम्यगर्चिताय। ..
तथा निचिताय-नि उपसर्गोऽभाववाची बृहन्न्यासे, चितं-चयनम्, कर्मणां न विद्यते चितं यस्याऽसौ निचितः, तस्मै कर्मोपचयरहितायेत्यर्थः । क्वचिद् न जिताय' इति पाठः। तत्र न जिताय-केनाऽपि न पराभूतायेत्यर्थः ।
तथा भुवनजनपालनोद्यततमाय-भुवनजनानां-विश्वत्रयीलोकानां पालनायरक्षणायोद्यततमः-अतिशयेनोद्यतः सावधानः, उद्यततमः, अतिशायने तम-विष्ठनौ' [पाणि. ५।३।५५] इति अतिशाये तमप्।
. अत्रेयन्ति मन्त्रपदानि-'सर्वामरसुसमूहस्वामि[कासम्पूजिताय भुवनजनपालनोद्यताय।' इति [चतुर्थपथ्यार्यार्थः] ||४||
सर्वदुरितौघनाशन-कराय सर्वाशिवप्रशमनाय। दुष्टग्रहभूतपिशाच-शाकिनीनां प्रमथनाय ।।५।। पथ्या ।। व्याख्या-तस्मै नमः, पुनः किम्भूताय? सर्वदुरितोषनाशनकराय-सर्वदुरितौघानां
For Private and Personal Use Only

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82