Book Title: Shrutsagar 2015 01 02 Volume 01 08 09
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba

View full book text
Previous | Next

Page 29
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 27 श्रुतसागर जनवरी-फरवरी - २०१५ तद्विद्यते यस्मिंस्तनिश्चितम्, अभ्रादित्वादप्रत्ययः । निश्चितं च संशयाऽभाववद् वचःवचनं यस्याऽसौ निश्चितवचाः, तस्मै निश्चितवचसे। तथा च पञ्चत्रिंशद्वचनातिशयेष्वेका-दशोऽयं संशयानामसम्भवोऽसन्दिग्धत्वमित्युक्तोऽतिशयः । यदनेकार्थः- 'इति स्वरूपे सान्निध्ये' [अनेकार्थसंग्रह, परिशिष्टकाण्ड, श्लोक-२८] इत्यादि। पुनः किम्भूताय? भगवते-भगः-जगदैश्वर्यं ज्ञानं वाऽस्त्यस्य भगवान्, अतिशयनेमतुः तस्मै भगवते। पुनः किम्भूताय? अर्हते पूजां-शक्रादिकृताम_मर्हतीत्यर्हन्, 'सुग्-द्विषार्हः सत्रिशत्रु-स्तुत्ये' [सिद्ध. ५।२।२६] इत्यतृश्-प्रत्ययः, तस्मै पुनः किम्भूताय? जयःरागद्वेषमोहानां विजयः, पराभव इत्यर्थः। स विद्यते यस्याऽसौ जयवान् । 'मवर्णावर्णान्ताद्' इति मवर्णावर्णोपधाच्च यवादिवर्जात् परस्य मतोर्मस्य वः। तस्मै जयवते। पुनः किम्भूताय? यशस्विने-यशः-कीर्तिर्विद्यते यस्याऽसौ यशस्वी। अस्मायामेधास्रग्भ्यो(स्रजो)विनिः [पाणि. ५।२।१२१] इति असन्ताद् विनिः। ___ पुनः किम्भूताय? दमिना-दमो विद्यते येषां ते दमिनः-साधवः, तेषां स्वामिनेप्रभवे, स्वामिन्नैश्वर्ये [पाणि.५।२।१२६] इति ऐश्वर्ये गम्ये धनवाचिनः स्वशब्दाद् आमिन्-प्रत्ययो निपात्यते। स्व-धनमस्याऽस्तीति स्वामी, स्ववान अन्यः। अत्रात्मादावर्थान्तरे स्वशब्दोवर्त्तते, अतोऽत्रैश्वर्यं न प्रतीयते। अत्र पथ्यायामियन्ति मन्त्रपदानि बोध्यानि-ॐ नमो भगवतेऽर्हते शान्तिनाथस्वामिने' इति द्वितीय पथ्यार्यार्थः] ||२|| सकलातिशेषमहा-सम्पत्तिसमन्विताय शस्याय। त्रैलोक्यपूजिताय च, नमो नमः शान्तिदेवाय ।।३।। व्याख्या - एवंविधाय शान्तिदेवाय नमो नमः । अत्र चर्चा प्रागेवावाचि। किम्भूताय? सकलातिशेषकमहासम्पत्तिसमन्विताय-सकलाः-समस्ताः, देशतो न्यूनतायामपि सकला इति व्यवह्रियन्ते। तथा चोक्तम्- 'समुदायवृत्तयः शब्दा अवयवेष्वपि वर्तन्ते । तत एकादिकोप्पृष्यादिः सप्तर्ष्यादिशब्दरभिधीयते। यथा-उदित एकः सप्तर्षिः, फलित एकः पञ्चाम्रः, पुष्पितौ पञ्चाम्रौ [ ] इति । अतः 'अतिशेषाः' इति महासम्पत्तीनां विशेषणं विन्यस्तम् । तत्राऽतिशेषा इत्यस्यार्थः अतिक्रान्तः शेषः उपयुक्तेतरो याभिस्ता अतिशेषा, निःशेषा इत्यर्थः। तत्र स्वार्थे क-प्रत्ययः, अतिशेषकाः । एवं विधा या महासम्पत्तयः सुरनिकरकृतसमवसरणर्द्धयः, ताभिः समन्वितः-सहितः, तस्मै For Private and Personal Use Only

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82