Book Title: Shrutsagar 2015 01 02 Volume 01 08 09
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SHRUTSAGAR
30
January-February-2015
अथ क्रियान्तरयोजनेनाऽपराजितां देवीं दर्शयति हे जयावहे भवति ! जयावहःविजयकारी इभः - करी यानत्वेन विद्यतेऽस्या इति जयावहेभवती, तस्याः सम्बोधने हे जयावहेभवति! हे अपराजिते ! जगत्यां विष्टपे त्वत्सान्निध्याद् भक्तलोक इतिप्रत्यक्षं जयति - सर्वोत्कर्षेण वर्त्तते ।
अत्रेयन्ति मन्त्रपदानि - 'नमो भगवति! जये! विजये! अजिते! अपराजिते ! जयन्ती[न्ति]! जयावहे !' इति । अत्र मन्त्रगाथयोः समाधिविधिः पूर्ववद्विधेयः । इति [सप्तमपथ्यार्यार्थः] ।।७।।
सर्वस्याऽपि च सङ्घस्य, भद्र-कल्याण-मङ्गलप्रददे !
साधूनां च सदा शिव-तुष्टि - पुष्टिप्रदे जीयाः ||८||
व्याख्या-अत्र प्रथमदले आर्यालक्षणमीक्ष्यते, द्वितीय दले तु अष्टाक्षरवृत्तलक्षणम्, परं महाकविप्रयुक्तत्वेन न दोषः ।
हे भगवति! त्वं जीयाः - जयवती भूयाः । अथ भगवतीं विशेषणैः सम्बोधयति - हे सर्वस्याऽपि च सङ्घस्य - साधु-साध्वी - श्रावक-श्राविकालक्षणस्य, नैकस्यैव, सङ्घस्येति व्यवच्छेदार्थं सर्वस्याऽपि चेत्युक्तम् । भद्रकल्याणमङ्गलानि प्रददातीति
भद्रकल्याणमङ्गलप्रददा ।
अत्र कविनैकार्था एव त्रयोऽपि शब्दा अतिशयद्योतनाय प्रयुक्ताः सम्भाव्यन्ते । अतिशयेन कल्याणदात्रीत्यर्थः । यद्वा भद्रानिप्रशस्यतमानि यानि मङ्गलानि च विपदुपशमरूपाणि, कल्याणानि च सम्पदुत्कर्षरूपाणि तानि प्रददातीति भद्रकल्याणमङ्गलप्रददा, तस्याः सम्बोधने - हे भद्रकल्याणमङ्गलप्रददे । 'भद्रं तु मङ्गले । मुस्तक- श्रेष्ठयोः साधौ, काञ्चने करणान्तरे [ अनेकार्थसंग्रह, २/४५४] इत्यनेकार्थः । ‘ददाति-दधात्योर्विभाषा' [ पाणि. ३ | १ | १३९ ] इति विकल्पेन शः, शित्वात् श्लुकार्यम्, द्वित्वादि, तेन ददः, दधः, पक्षे णः, तथा च दायः, धायः इति । अत्र सोपसर्गत्वेऽपि शः समेतः, तच्चिन्त्यम् । यद्वा समाधिविधिरयम्- 'ददि दाने' [पाणि धातु. १/१७] - अस्य घातोः 'प्रददते इति 'प्रददः' इति रूपं सिध्यति ।
च-पुनः साधूनाम्-अनगाराणां सदा-नित्यं तुष्टिं च पुष्टिं च धर्मस्य, यद्वा तुंष्टेः - स्वास्थ्यस्य पुष्टिं पोषं प्रददातीति तुष्टिपुष्टिप्रदा, तस्याः सम्बोधने-हे तुष्टिपुष्टिप्रदे! अत्राऽनुपसर्गादेव ‘प्रदः प्रधः' इति।
सङ्घपदेन साधवोऽपि समेताः, तर्हि पृथक् साधुपदं किमित्यानीतम् ? उच्यते 'प्रधानत्वात्, यथा सैन्यमायातम्, राजापि समेत इति । यथा वा संयमपदसङ्गृहीतमपि ब्रह्मचर्यपदं पृथक् प्रण्यगादि' ।
For Private and Personal Use Only

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82