SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खरतरगच्छीय महोपाध्याय श्रीगुणविनयगणिविरचितटीकालङ्कृतम् _पूज्याचार्य श्रीमानदेवसूरिविरचितं 'श्रीलघुशान्तिस्तोत्रम्' स्मृत्वा श्रीश्रुतदेवीं, कविविश्रुतकीर्तिमस्तमितदोषाम् । श्रीशान्तिनाथमथशान्ति-निकरकरं मानसे कृत्वा ||१|| श्रीजयसोमोपाध्याय-गुरून् गुरुगौरवं नमस्कृत्य। वच्मि श्रीशान्तिस्तव-वृत्तिं लेशेन शुभवृत्त्या ।।२।। [युग्मम्] तत्रादौ श्रीशान्तिस्तवोत्पत्तिः प्रतिपाद्यते पुराऽस्मद्गच्छे श्रीमानदेवसूरयो बभूवुः । एकदा नडूलनगरे ते चतुर्मासी तस्थुः । तस्मिन्नेव समये शाकम्भरीपुरे श्रीसङ्घः शाकिनीमरकोपद्रवेणाऽत्यर्थं व्यथितः । तदा सङ्घन विमृश्य महाप्रभावक-श्रीमानदेवसूरीणां सविधे मनुजप्रेषणेन विज्ञप्तिर्विदधे'यथाऽत्र मरकोपद्रवोऽस्ति, तद्वारणाय कश्चिदुपायो विधेयः। ततो मानदेवसूरिभिः श्रीसङ्घोपद्रववारणायऽयं श्रीशान्तिस्तवः प्रेषि। ततः तत्पठनात् तद्भवणाच्च शान्तिरुत्पेदे। एवमस्य शान्तिस्तवस्योत्पत्तिः। उक्तं चाऽस्मद्गच्छीयपूर्वगुरूणामवदातेषु'नड्डूलनामनगरे कृतमेघकालैः, शाकम्भरीपुरसमागतसङ्घवाचा। शान्तिस्तवः प्रबलमारिभयापहारी, यैर्निर्ममे सुविहितक्रममार्गदीपैः ।।१।।' [ ] अथ शान्तिस्तवव्याख्यातुमाह शान्तिं शान्तिनिशान्तं, शान्तं शान्ताशिवं नमस्कृत्य। स्तोतुः शान्तिनिमित्तं, मन्त्रपदैः शान्तये स्तौमि ।।१।। व्याख्या-'अहम्' इत्यस्मत्प्रयोगोऽनुक्तोऽप्याऽऽक्षिप्यते। अहं मन्त्रपदैः - मन्त्राःदेवादिसाधनानि, देवादयः साध्यन्तेऽनेन देवादिसाधनम्, महाबीजादीत्युक्तेः, तेषां पदानि-वाक्यानि। यदनेकार्थः- 'पदं स्थाने विभक्त्यन्ते, शब्दे वाक्येङ्कवस्तुनोः। For Private and Personal Use Only
SR No.525297
Book TitleShrutsagar 2015 01 02 Volume 01 08 09
Original Sutra AuthorN/A
AuthorHiren K Doshi
PublisherAcharya Kailassagarsuri Gyanmandir Koba
Publication Year2015
Total Pages82
LanguageGujarati
ClassificationMagazine, India_Shrutsagar, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy