Book Title: Shokshaka Prakarana Part 2
Author(s): Haribhadrasuri, Yashovijay of Jayaghoshsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 20
________________ * तच्चित्तताद्यष्टविधविशेषणविमर्शः 88 २१५ पुण्यैः ||/६|| पापाजां राग-द्वेष-मोहकतानां स्वयंकृतत्वेन निवेदनं गर्भ: = अन्तर्गतभावः येषां तानि तथा तैः, प्रणिधानं = ऐकाम्यं तत्पुरस्सरैः = उपयोगप्रधानैः इति यावत्, विचित्रार्थः = बहुविधार्थयुक्तैः, अस्खलितादयो गुणा: अस्खलिताऽमिलिताऽव्यत्याडितादिलक्षणा: तैः युतै: अभिव्या-हारकाले; स्तोत्रैश्च महामतिभिः = विशिष्टबुद्धिभिः = कल्याणकन्दली । पापानां राग-द्वेष-मोहकतानां स्वयंकृतत्वेन निवेदनमिति, यथा -> प्राप्यापि तव सम्बोधिं मनोवाक्कायकर्मजैः । दश्चेष्टितैर्मया नाथ ! शिरसि ज्वालितोऽनलः ।। - वी.स्तो.१६/५] इति वीतरागस्तोत्रप्रभृतिभिः । उपयोगप्रधानैरिति । 'एगग्गहणे गहणं तज्जाइयाण सव्वेसिं' [४७०६] इति निशीथभाष्यवचनात् प्रकृते तद्गतचित्तत्वादीनामपि ग्रहणं कर्तव्यम् । तदुक्तं व्याख्याप्रज्ञप्तौ -> तच्चित्ते, तम्मणे, तल्लेसे, तदज्झवसिए, तत्तिव्यज्झवसाणे, तदट्ठोवउत्ते, तदप्पियकरणे, तब्भावणाभाविए... <- [१/७/६२] । तव्याख्या चैवम् -> [१] तत्र = अर्थादौ चित्तं सामान्योपयोगाख्यं यस्याऽसौ तच्चित्तः, [२] तत्रैव अर्थादौ मनो विशेषोपयोगरूपं यस्याऽसौ तन्मनाः, [३] लेझ्या = आत्मपरिणामविशेषः, [४] इहाध्यवसायः = अध्यवसितः, तत्र तच्चित्तादिभावयुक्तस्य सतः तस्मिन्नेवार्थादौ अध्यवसितं परिभोगक्रियासम्पादनविषयमस्येति तदध्यवसितः, [५] तस्मिन्नेवार्थादी तीव्र = आरम्भकालादारभ्य प्रकर्षयायि अध्यवसानं प्रयत्नविशेषलक्षणं यस्य स तथा, [६] तदर्थं = अर्थादिनिमित्तं उपयुक्तः = अवहितः = तदर्थोपयुक्तः, [७] तस्मिन्नेवार्थादौ अर्पितानि = आहितानि करणानि = इन्द्रियाणि कृत-कारितानुमतिरूपाणि वा येन स तथा, [८] असकृत् अनादौ संसारे तद्भावनयाऽर्थादिसंस्कारेण भावितो | यः स तथा <- । युक्तश्चैतद्विशेषणकदम्बकपरिकलितत्वम्, इत्थमेवाधिकृतभगवद्गुणादिभासनोपपत्तेः । तदुक्तं योगशतके -> तग्गयचित्तस्स तहोवओगओ तत्तभासणं होति । एयं एत्थ पहाणं अंगं खलु इट्ठसिद्धीए ॥६५॥ - इति । तदुक्तं चैत्यवन्दनमहाभाष्येऽपि -> चिंतेयब्बो सम्म तेसिं अत्थो जहापरित्राणं । सुन्नहिययत्तमिहरा उत्तमफलसाहगं न भवे ॥२३३॥ ८- इति । बहुविधार्थयुक्तैः यथा -> प्रीणन्तु जन्तुजातं नखसुभगा भावुका न नखसुभगाः । अभिजातस्यापि सदा पादाः श्रीनाभिजातस्य ।।१।। - इति श्रीजिनपतिविरचितैर्विरोधालङ्कारमण्डितै: ऋषभस्तोत्रादिभिः भक्ता.कल्या.स्तोत्रत्रय पृ.२५७ । अस्खलिताऽमिलिताऽव्यत्यानेडितादिलक्षणा इति । उपल-शकलाद्याकुलभूभागे लालमिव स्खलति यत्तत् स्खलितं, न तथा = अस्खलितम् । अनेकस्तोत्रादिसम्बन्धीनि पदान्येकत्र मीलयित्वा यत्र पठति तत् मिलितं, असदृशधान्यमेलकवत्, यद्वा पठतः यत्र पदादिविच्छेदो न प्रतीयते तन्मिलितं, न तथा = अमिलितम् । एकस्मिन्नेव स्तोत्रेऽन्यान्यस्थाननिबद्धानि एकार्थानि पदान्येकस्थाने समानीय पठतो व्यत्यानेडितं यद्वा स्तोत्रमध्ये स्वमतिचर्चितानि तत्सदृशानि पदानि कृत्वा प्रक्षिपतो व्यत्यानेडितं, अस्थानविरतिकं वा व्यत्यानेडितं, न तथा = अव्यत्यानेडितम् । आदिपदेन प्रतिपूर्णादिग्रहणम् । तदुक्तं अनुयोगद्वारसूत्रे -> पदं सिवितं ठितं जितं मितं परिजितं नामसमं घोससमं, अहीणक्खरं, अणचक्खरं, अब्वाइद्धक्खरं, उ.क्खलिअं, अमिलिअं, अवच्चामेलियं, पडिपुण्णं, पडिपुण्णघोसं कंठोट्ठविप्पमुकं...' - [सू. १३] इत्यादि । अभिव्याहारकाले = उच्चारणावसरे, उपलक्षणात् जिनबिम्बन्यस्तनयनमन:पूर्वकं गाम्भीर्यादिगुणोपेतमुच्चारणमवगन्तव्यम्, तदुक्तं चैत्यवंदनमहाभाष्ये -> जिणबिंबपायपंकयविणिवेसियनयणमाणसो धणियं । अक्खलियाइगुणजुयं पणिवायथयं तओ पढइ ।।२६९।। गंभीरमहरघोसं तह तह थोत्ताइयं भणेज्जाह । जह जायइ संवेगं सुणमाणाणं परेसिं पि ।।८४२।। - इति । श्राद्धदिनकृत्येऽपि -> विसिट्ठवन्ननासेणं भावितो य पयं पयं । जिणणाहस्स बिंबम्मि दिन्नदिट्ठी सुहासओ ॥३२॥ ८- इत्याद्युक्तं शक्रस्तवपठनाद्यवसरे । यथोक्तं ललितविस्तरायां मूलकारैरपि --> तदेतदसौ साधुः श्रावको वा यथोदितं पठन् पञ्चाङ्गप्रणिप्रातं करोति, भूयश्च पादपुञ्छनादिनिषण्णो यथाभव्यं यथाभावं] स्थान-वर्णाालम्बनगतचित्तः सर्वसाराणि यथाभूतानि अ भगवतां दुष्टालङ्कारविरहेण प्रकृष्टशब्दानि, भाववृद्धये परयोगव्याघातवर्जनेन परिशुद्धामापादयन् योगवृद्धिं अन्येषां सद्विधानतः सर्वज्ञप्रणीतवचनोन्नतिकराणि भावसारं परिशुद्धगम्भीरेण ध्वनिना सुनिभृताङ्गः सम्यगनभिभवन् गुरुध्वनि तत्प्रवेशात्, अगणयन् दंशमशकादीन् देहे, योगमुद्रया रागादिविषपरममन्त्ररूपाणि महास्तोत्राणि पठति <- [पृ.७७/७८] । साधुभिरपि जिनभक्तिः न त्याज्या, किन्तु परमादरेण चैत्यवन्दन-स्तोत्रादिषु यतितव्यमेव, तदुक्तं आराधनापताकायां वीरभद्रसूरिभिः -> तेसिं ભય અથવા મોક્ષાભિલાષવરૂપ સંવેગ એ જ જેમાં શ્રેષ્ઠ ગમન = ગન્તવ્ય = પ્રાપ્ય હોય એવા અર્થાત સંવેગપરાયણ એવા સ્તોત્ર હોવા જોઈએ. ૬િ] પુણ્યજનક હોવાથી પવિત્ર-પાવન એવા સ્તોત્ર જોઈએ. [૭] “રાગ-દ્વેષ-મોહથી થયેલ પાપો મેં કર્યા છે.” એવા એકરારથી ગર્ભિત સ્તોત્રોને [૮] એકાગ્રતાપૂર્વક - ઉપયોગપ્રધાન કરીને બોલવા જોઈએ. [૯] અનેક પ્રકારના અર્થથી યુક્ત એવા સ્તોત્રોથી પ્રભુના ગુણગાન કરવા. [૧૦] બોલતી વખતે સ્તોત્રના અક્ષરો ખુલના ન પામે, પદો પરસ્પર ભેગા Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 250