________________
* तच्चित्तताद्यष्टविधविशेषणविमर्शः 88
२१५
पुण्यैः ||/६|| पापाजां राग-द्वेष-मोहकतानां स्वयंकृतत्वेन निवेदनं गर्भ: = अन्तर्गतभावः येषां तानि तथा तैः, प्रणिधानं = ऐकाम्यं तत्पुरस्सरैः = उपयोगप्रधानैः इति यावत्, विचित्रार्थः = बहुविधार्थयुक्तैः, अस्खलितादयो गुणा: अस्खलिताऽमिलिताऽव्यत्याडितादिलक्षणा: तैः युतै: अभिव्या-हारकाले; स्तोत्रैश्च महामतिभिः = विशिष्टबुद्धिभिः
= कल्याणकन्दली । पापानां राग-द्वेष-मोहकतानां स्वयंकृतत्वेन निवेदनमिति, यथा -> प्राप्यापि तव सम्बोधिं मनोवाक्कायकर्मजैः । दश्चेष्टितैर्मया नाथ ! शिरसि ज्वालितोऽनलः ।। - वी.स्तो.१६/५] इति वीतरागस्तोत्रप्रभृतिभिः ।
उपयोगप्रधानैरिति । 'एगग्गहणे गहणं तज्जाइयाण सव्वेसिं' [४७०६] इति निशीथभाष्यवचनात् प्रकृते तद्गतचित्तत्वादीनामपि ग्रहणं कर्तव्यम् । तदुक्तं व्याख्याप्रज्ञप्तौ -> तच्चित्ते, तम्मणे, तल्लेसे, तदज्झवसिए, तत्तिव्यज्झवसाणे, तदट्ठोवउत्ते, तदप्पियकरणे, तब्भावणाभाविए... <- [१/७/६२] । तव्याख्या चैवम् -> [१] तत्र = अर्थादौ चित्तं सामान्योपयोगाख्यं यस्याऽसौ तच्चित्तः, [२] तत्रैव अर्थादौ मनो विशेषोपयोगरूपं यस्याऽसौ तन्मनाः, [३] लेझ्या = आत्मपरिणामविशेषः, [४] इहाध्यवसायः = अध्यवसितः, तत्र तच्चित्तादिभावयुक्तस्य सतः तस्मिन्नेवार्थादौ अध्यवसितं परिभोगक्रियासम्पादनविषयमस्येति तदध्यवसितः, [५] तस्मिन्नेवार्थादी तीव्र = आरम्भकालादारभ्य प्रकर्षयायि अध्यवसानं प्रयत्नविशेषलक्षणं यस्य स तथा, [६] तदर्थं = अर्थादिनिमित्तं उपयुक्तः = अवहितः = तदर्थोपयुक्तः, [७] तस्मिन्नेवार्थादौ अर्पितानि = आहितानि करणानि
= इन्द्रियाणि कृत-कारितानुमतिरूपाणि वा येन स तथा, [८] असकृत् अनादौ संसारे तद्भावनयाऽर्थादिसंस्कारेण भावितो | यः स तथा <- । युक्तश्चैतद्विशेषणकदम्बकपरिकलितत्वम्, इत्थमेवाधिकृतभगवद्गुणादिभासनोपपत्तेः । तदुक्तं योगशतके -> तग्गयचित्तस्स तहोवओगओ तत्तभासणं होति । एयं एत्थ पहाणं अंगं खलु इट्ठसिद्धीए ॥६५॥ - इति । तदुक्तं चैत्यवन्दनमहाभाष्येऽपि -> चिंतेयब्बो सम्म तेसिं अत्थो जहापरित्राणं । सुन्नहिययत्तमिहरा उत्तमफलसाहगं न भवे ॥२३३॥ ८- इति । बहुविधार्थयुक्तैः यथा -> प्रीणन्तु जन्तुजातं नखसुभगा भावुका न नखसुभगाः । अभिजातस्यापि सदा पादाः श्रीनाभिजातस्य ।।१।। - इति श्रीजिनपतिविरचितैर्विरोधालङ्कारमण्डितै: ऋषभस्तोत्रादिभिः भक्ता.कल्या.स्तोत्रत्रय पृ.२५७ ।
अस्खलिताऽमिलिताऽव्यत्यानेडितादिलक्षणा इति । उपल-शकलाद्याकुलभूभागे लालमिव स्खलति यत्तत् स्खलितं, न तथा = अस्खलितम् । अनेकस्तोत्रादिसम्बन्धीनि पदान्येकत्र मीलयित्वा यत्र पठति तत् मिलितं, असदृशधान्यमेलकवत्, यद्वा पठतः यत्र पदादिविच्छेदो न प्रतीयते तन्मिलितं, न तथा = अमिलितम् । एकस्मिन्नेव स्तोत्रेऽन्यान्यस्थाननिबद्धानि एकार्थानि पदान्येकस्थाने समानीय पठतो व्यत्यानेडितं यद्वा स्तोत्रमध्ये स्वमतिचर्चितानि तत्सदृशानि पदानि कृत्वा प्रक्षिपतो व्यत्यानेडितं, अस्थानविरतिकं वा व्यत्यानेडितं, न तथा = अव्यत्यानेडितम् । आदिपदेन प्रतिपूर्णादिग्रहणम् । तदुक्तं अनुयोगद्वारसूत्रे -> पदं सिवितं ठितं जितं मितं परिजितं नामसमं घोससमं, अहीणक्खरं, अणचक्खरं, अब्वाइद्धक्खरं, उ.क्खलिअं, अमिलिअं, अवच्चामेलियं, पडिपुण्णं, पडिपुण्णघोसं कंठोट्ठविप्पमुकं...' - [सू. १३] इत्यादि । अभिव्याहारकाले = उच्चारणावसरे, उपलक्षणात् जिनबिम्बन्यस्तनयनमन:पूर्वकं गाम्भीर्यादिगुणोपेतमुच्चारणमवगन्तव्यम्, तदुक्तं चैत्यवंदनमहाभाष्ये -> जिणबिंबपायपंकयविणिवेसियनयणमाणसो धणियं । अक्खलियाइगुणजुयं पणिवायथयं तओ पढइ ।।२६९।। गंभीरमहरघोसं तह तह थोत्ताइयं भणेज्जाह । जह जायइ संवेगं सुणमाणाणं परेसिं पि ।।८४२।। - इति । श्राद्धदिनकृत्येऽपि -> विसिट्ठवन्ननासेणं भावितो य पयं पयं । जिणणाहस्स बिंबम्मि दिन्नदिट्ठी सुहासओ ॥३२॥ ८- इत्याद्युक्तं शक्रस्तवपठनाद्यवसरे ।
यथोक्तं ललितविस्तरायां मूलकारैरपि --> तदेतदसौ साधुः श्रावको वा यथोदितं पठन् पञ्चाङ्गप्रणिप्रातं करोति, भूयश्च पादपुञ्छनादिनिषण्णो यथाभव्यं यथाभावं] स्थान-वर्णाालम्बनगतचित्तः सर्वसाराणि यथाभूतानि अ भगवतां दुष्टालङ्कारविरहेण प्रकृष्टशब्दानि, भाववृद्धये परयोगव्याघातवर्जनेन परिशुद्धामापादयन् योगवृद्धिं अन्येषां सद्विधानतः सर्वज्ञप्रणीतवचनोन्नतिकराणि भावसारं परिशुद्धगम्भीरेण ध्वनिना सुनिभृताङ्गः सम्यगनभिभवन् गुरुध्वनि तत्प्रवेशात्, अगणयन् दंशमशकादीन् देहे, योगमुद्रया रागादिविषपरममन्त्ररूपाणि महास्तोत्राणि पठति <- [पृ.७७/७८] । साधुभिरपि जिनभक्तिः न त्याज्या, किन्तु परमादरेण चैत्यवन्दन-स्तोत्रादिषु यतितव्यमेव, तदुक्तं आराधनापताकायां वीरभद्रसूरिभिः -> तेसिं ભય અથવા મોક્ષાભિલાષવરૂપ સંવેગ એ જ જેમાં શ્રેષ્ઠ ગમન = ગન્તવ્ય = પ્રાપ્ય હોય એવા અર્થાત સંવેગપરાયણ એવા સ્તોત્ર હોવા જોઈએ. ૬િ] પુણ્યજનક હોવાથી પવિત્ર-પાવન એવા સ્તોત્ર જોઈએ. [૭] “રાગ-દ્વેષ-મોહથી થયેલ પાપો મેં કર્યા છે.” એવા એકરારથી ગર્ભિત સ્તોત્રોને [૮] એકાગ્રતાપૂર્વક - ઉપયોગપ્રધાન કરીને બોલવા જોઈએ. [૯] અનેક પ્રકારના અર્થથી યુક્ત એવા સ્તોત્રોથી પ્રભુના ગુણગાન કરવા. [૧૦] બોલતી વખતે સ્તોત્રના અક્ષરો ખુલના ન પામે, પદો પરસ્પર ભેગા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org