________________
२१४ नवमं षोडशकम
988 देववन्दनस्वरूपादिविद्योतनम् 8 पिण्डः = शरीरं अष्टोत्तरलक्षणसहसलक्षितं, क्रिया सर्वातिशायिदुर्वारपरिषहजयाद्याचाररुपा, गुणाः जीवस्वभावाविजाभूता: सामान्येन ज्ञानादय: विशेषेण केवलज्ञानादयः तद्गतैः = तविषयैः, गम्भीरैः = सूक्ष्ममतिगम्याथै:, विविधा: = च्छन्दोऽलङ्कारभङ्ग्या विचित्रा ये वर्णाः तैः संयुक्तैः, आशयविशुद्धेः = जवमरसाभिव्यञ्जनया चित्तशुद्धेः जनकै:, संवेगः = भवभयं मोक्षाभिलाषो वा, (तस्य) परं अयनं = गमनं येषु ताजि तथा तै:, पुण्यहेतुत्वात्
कल्याणकन्दली ॥९/७॥ शरीरं अष्टोत्तरसहस्रलक्षितमिति । यथा -> छत्त-चामर-पडाग-जुअ-जव-मंडिआ, झयवर-मगर-तुरय-सिरिवच्छसुलंछणा । दीव-समुद्द-मंदर-दिसागय-सोहिया, सत्थिअ-वसह-सीह-रह-चक्कवरंकिया ॥३२।। - इति अजितशान्तिस्तोत्रादिभिः । क्रिया सर्वातिशायिदुरपरिषहजयाद्याचाररूपा, यथा -> तन्वा सत्त्वसतत्त्व ! सत्त्वहितकृत्तत्त्वानि शैवं सुखं, सद्यो निर्जित-शत्रुजात ! 'सविता ! पद्माभिरामोदय !! रोहन्मोहतिमिस्रसंहतिहतौ विश्राणिताभिर्विशोऽ सद्योनिर्जित-शत्रुजात : सविताऽऽपद्माऽभिरामोदय ।।२।। - इति श्रीजिनसुन्दरसूरिप्रणीतयमकबद्ध-चतुर्विंशतिजिनस्तोत्रादिभिरभिव्यज्यमाना । गुणाः ज्ञानादय इति । यथा -> 'ज्ञानं यथा त्वयि विभाति कृतावकाशं, नैवं तथा हरिहरादिषु नायकेषु । तेजः स्फुरन्मणिषु याति यथा महत्त्वं नैवं तु काचशकले किरणाऽऽकुलेऽपि ।।२०।। <- इति भक्तामरस्तोत्रादिभिः । विशेषेण केवलज्ञानादय इति यथा -> सर्वज्ञः सर्वदेवेशः सर्वगः सर्वतोमुखः । सर्वात्मा सर्वदर्शी च सर्वव्यापी जगद्गुरुः ।।५।। - इति मन्त्राधिराज-|| स्तोत्रादिभिः । सूक्ष्ममतिगम्याथै रिति यथा -> येयोऽलोलो लुलायी यां लीलयाऽयी ललौ ययुः । ययुया ये ययायाये, यायऽऽयो यालयोऽप्यलम् ।।१३।। ८- इति पुण्यरत्नसूरिकृतद्विवर्णरत्नमालिकाप्रभृतिस्तोत्रैः । च्छन्दोऽलङ्कारभङ्ग्या इति यथा शार्दूलविक्रीडितच्छन्देन यमकबद्धं श्रीशोभनदेवविरचितं -> भव्याम्भोजविबोधनकतरणे ! विस्तारिकर्मावली-रम्भासामज ! नाभिनन्दन ! महानष्टापदाभासुरैः। भक्त्या वन्दितपादपद्म ! विदुषां सम्पादय प्रोज्झिता-रम्भासाम ! जनाभिनन्दन ! महानष्टापदा भासुरैः ॥१/१|| <- इत्यादि, एवं -> श्रीवर्धमान ! नतमानसशोध ! 'यन्ति, स्वैरं यशांसि भुवनं तव शोधयन्ति । बुद्ध्या चकोरनिकरा: शतशो धयन्ति, चन्द्रद्युतामपरदेवयशो धयन्ति ।।२४।। इत्यादि श्रीचारित्ररत्नगणिविरचितं चतुर्विंशतिस्तोत्रम् ।
नवमरसाभिव्यञ्जनया, 'शृङ्गारवीरौ बीभत्सं रौद्रं हास्यं भयानकम् । करुणा चाद्भूतं शान्तं, वात्सल्यं च रसा दश' ।। 1] इति श्लोकोक्तक्रममाश्रित्य शान्तरसोद्दीपनेन यथा -> यदि नियतमशान्तिं नेतुमिच्छोपशान्ति, समभिलषत शांति तद्विधाप्याप्तशान्तिम् । प्रहतजगदशान्तिं जन्मतोऽप्यात्तशान्तिं, नमत विनतशान्तिं हे जना ! देवशान्तिम् ।। - इति श्रीधर्मघोषसूरिवररचितचतुर्विंशतिजिनस्तोत्रादिना ।।
संवेगः = भवभयं, मोक्षाभिलाषो वेति । उपलक्षणात् देव-गुरु-धर्मेषु निश्चलानुरागस्यापि ग्रहणं कार्यम्, यथोक्तं -> तथ्ये धर्मे ध्वस्तहिंसाप्रबन्धे, देवे राग-द्वेष-मोहादिमुक्ते । साधौ सर्वग्रन्थसन्दर्भहीने संवेगोऽसौ निश्चलो योऽनुरागः ।। <-[ ] इति । संवेगेन धर्मश्रद्धोत्पत्तिस्तु 'संवेगेण अणुत्तरं धम्मसद्धं जणयई' ।।२९/१०॥ इति उत्तराध्ययनसूत्रात्प्रसिद्धैव । प्रकृते संवेगपरायणता तु -> त्वं नाथ ! दुःखिजनवत्सल ! हे शरण्य ! कारुण्यपुण्यवसते ! वशिनां वरेण्य ! भक्त्या नते मयि महेश ! दयां विधाय, दु:खाङ्कुरोद्दलनतत्परतां विधेहि ॥३९।। - इति कल्याणमन्दिरस्तोत्रादिभिः यद्वा -> पच्चलकसायचारे सइसन्निहिआसि चक्कधणुरेहा । हंति तुह च्चिय चलणा सरणं भीआणं भवरन्ने ।।२८।। इति धनपालकृतऋषभपश्चाशिकादिभिः ज्ञेया ॥९/६।। | અમ્મલિતતા વગેરે ગુણોથી યુક્ત કરી તેવા સ્તોત્રો દ્વારા પ્રભુની સ્તોત્રપૂજા કરવી. [૯ /૬-૭].
તોત્રપૂજા વિશ્લેષણ . ટીકાર્ચ :- [૧] ૧૦૦૮ લક્ષણોથી યુક્ત એવું પ્રભુશરીર, સર્વોત્કૃષ્ટ દુર્વાર એવા પરિષહોને જીતવા વગેરે આચારસ્વરૂપ ક્રિયા તેમ જ જીવસ્વભાવ છોડીને ન રહેનારા સામાન્યથી જ્ઞાન આદિ ગુણ, વિશેષ રીતે કેવલજ્ઞાન વગેરે ગુણો આ ત્રણેયને પોતાનો વિષય બનાવે એવા સ્તોત્રો વડે જિનપૂજા કરવી. જિ સ્તોત્રો દ્વારા પ્રભુના ગુણગાન થાય તે સ્તોત્રોના ૧૧ વિશેષાણો શ્રીમદ્જીએ બતાવેલ છે. તેમાંથી પ્રથમ વિશેષણ કહેવાઈ ગયું. બાકીના ૧૦ વિશેષણો હવે બતાવાય છે.] [૨] સ્તોત્ર ગંભીર અર્થાત્ સૂક્ષ્મ બુદ્ધિથી જાણી શકાય તેવા અર્થોથી યુક્ત હોવાં જોઈએ. [૩] અનેક છંદ, અલંકારની રચનાથી વિવિધ એવા વર્ષોથી સંયુક્ત || એવા સ્તોત્ર હોવા જોઈએ. [૪] નવમો શાંત રસ અભિવ્યક્ત કરવાથી સ્તોત્ર ચિત્તશુદ્ધિના જનક હોવા જોઈએ. [૫] સંસારનો १. प्रसरन्ति । २. विमलयन्ति । ३. पिबन्ति । ४. अधः कुर्वन्ति ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org