________________
* हेतु-स्वरूप-फलमुखेन श्रद्धाप्ररूपणम् 8
२१३ पीतादिवणं गृह्यते । वचनसारेण = आगमप्रधाजेन आशंसया = इह-पर-लोकफलवाञ्छया रहितेन च तथा तथा = तेज तेन पुष्प-वस्त्रादिविरचनाप्रकारेण भाववृद्भया उच्चैः = अतिशयेन ॥७/|
इयमधिकृता पूजा पुष्पाऽऽमिषस्तोत्रादिभेदेन बहुविधा | तत्र पुष्पादिपूजामभिधाय स्तोत्रपूजां कारिकाद्वयेनाऽऽह -> 'पिण्डेत्यादि । 'पापे'त्यादि।
पिण्डक्रियागुणगतैर्गम्भीरैर्विविधवर्णसंयुक्तैः । आशयविशुद्धिजनकैः संवेगपरायणैः पुण्यैः ॥९/६॥ पापनिवेदनगर्भेः प्रणिधानपुरस्सरैर्विचित्रार्थैः । अस्खलितादिगुणयुतैः स्तोत्रैश्च महामतिग्रथितैः ॥९/७॥
कल्याणकन्दली तव्यम् - शुभपदमसन्धिताद्युपलक्षणं, सन्धितादिवस्त्रनिषेधात्, यथोक्तं -> न कुर्यात् सन्धितं वस्त्रं देवकर्मणि भूमिप । न दग्धं न तु वै च्छिन्नं, परस्य तु न धारयेत् ॥ किटस्पृष्टं तु यद्वस्त्रं पुरिषं येन कारितम् । मूत्रं मैथुनश्चापि, तद्वस्त्रं परिवर्जयेत् ॥ - [ ] इति । पूजाप्रकरणे वाचकमुख्येनापि -> खण्डिते सन्धिते छिन्ने रक्ते रौद्रे च वाससि । दानजाप-तपो-होमसन्ध्यादि निष्फलं भवेत् ।।१६।। - इत्युक्तम् । अन्यत्रापि -> खण्डितं सन्धितं छिन्नं रक्तं रौद्रैः कुवर्णकैः ।। दानं पूजा तपो होम-सन्ध्यादि निष्फलं भवेत् ।। - [ ] इत्युक्तम् । वचनसारेण = प्रवृत्तौ आगमप्रधानेनेति । अनेन मार्गपरिशुद्धिः प्रोक्ता ।
इहपरलोकफलवाञ्छया रहितेन इत्यनेन आशयपरिशुद्धिः प्रदर्शिता । भाववृद्धया इति । भावश्चेह श्रद्धारूपो बोध्यः, तत्स्वरूपञ्च ललितविस्तरायां -> श्रद्धा = निजोऽभिलाष: मिथ्यात्वमोहनीयकर्मक्षयोपशमादिजन्यश्चेतसः प्रसादः इत्यर्थः । अयञ्च जीवादितत्त्वार्थानुसारी समारोपविघातकृत् कर्मफलसम्बन्धास्तित्वादिसंप्रत्ययाकार: चित्तकालुष्यापनायी धर्मः । यथोदकप्रसादको मणिः सरसि प्रक्षिप्तः पङ्कादिकालुष्यमपनीयाऽच्छतामापादयति एवं श्रद्धामणिरपि चित्तसरस्युत्पन्नः सर्वं चित्तकालुष्यमपनीय भगवदर्हत्प्रणीतमार्गे सम्यग्भावयतीति - [पृ.८२] प्रोक्तम् । अनेन उपादानविशुद्धिरुपदर्शिता । इत्थमेव क्रियासाफल्योपपत्तेः । तदुक्तं ब्राह्मपुराणेऽपि -> भावशुद्धिः प्रयोक्तव्या नियमाचारसंयुता । भावशुद्धया क्रियते यत् तत्सर्वं सफलं भवेत् ॥ <- [२९/१७]
देवपूजाविधिश्च योगबिन्दी -> पुष्पैश्च बलिना चैव, वस्त्रैः स्तोत्रैश्च शोभनैः । देवानां पूजनं ज्ञेयं, शौचश्रद्धासमन्वितम् ॥११६।। इत्येवमावेदितः । एतत्कारिकायुगलमुपयुज्य भक्तिद्वात्रिंशिकायां -> इयं न्यायोत्थवित्तेन कार्या भक्तिमता सता । विशद्धोज्ज्वलवस्त्रेण शुचिना संयतात्मना ।।२३।। - इत्युक्तम् ।
इह श्लोकद्वयोक्तविधिभङ्गे तन्निरपेक्षतायां वा त्रिकालपूजाऽपि निष्फला, यदुक्तं सम्बोधसप्ततौ -> आणाखंडणकारी जइवि तिकालं महाविभूइए । पूएइ वीयरागं सम्बंपि निरत्थयं तस्स ॥३३॥ - इति । न केवलं निष्फलत्वमपि त्वनादरेण विधिनिरपेक्षतायामनर्थकारित्वमपि, तदुक्तं मूलकारैरेव सम्बोधप्रकरणे -> विहिपूया साहेइ सग्गफलं सिवफलं परंपारं । अविहिकया कुगइफलं साहइ निस्सूगचित्ताणं ॥७८।। - इति ध्येयम् ॥९/५॥
मूलग्रन्थे दण्डान्वयस्त्वेवम् -> पिण्डक्रियागुणगतैः गम्भीर: विविधवर्णसंयुक्तैः आशयविशुद्धिजनकैः संवेगपरायणैः पुण्यैः ॥९/६।। पापनिवेदनगर्भे: विचित्रार्थे : प्रणिधानपुरस्सरैः अस्खलितादिगुणयुतैः महामतिग्रथितैश्च स्तोत्रैः ‘इयं कर्तव्ये' त्यनुषज्यते
પોતાના અંગોપાંગ અને ઈન્દ્રિય મર્યાદામાં રહે એવું જે રીતે મુખ્ય બને તે પ્રમાણે પૂજા કરવી. મિતલબ કે પોતાના હાથ, પગ, કમર, વાંસ વગેરે પૂજા દરમ્યાન મર્યાદામાં રહે તેનો શ્રાવક અને શ્રાવિકાએ ખ્યાલ રાખવો. વિજાતીય વ્યક્તિની વાસનાને વકરાવવાની વૃત્તિથી વિરમવાની વૃત્તિને વર્તન-વ્યવહારમાં વણી લેવા તરફ શ્રીમદ્જી અંગુલિનિર્દેશ કરે છે. પૂજા કરનારના વસ્ત્ર સફેદ અને સુંદર જોઈએ. સુંદર વસ્ત્ર પ્રસ્તુતમાં સફેદ સિવાયના લાલ-પીળા વગેરે વર્ગવાળા પટકુળ વગેરે જાણવા. જીવનમાં આગમને મુખ્ય કરનાર અને આ લોક-પરલોકની હાથી રહિત એવા પૂજકે સુિંદર રીતે] પુષ્પ, વસ્ત્ર વગેરેની ગોઠવણ થાય એ પદ્ધતિએ અત્યંત ભાવવૃદ્ધિથી જિનપૂજા કરવી. [/૫].
આ અધિકૃત = પ્રસ્તુત પૂબ પુષ્પ, નૈવેદ્ય, સ્તોત્ર વગેરે પ્રકારથી અનેકવિધ છે. તેમાં પુષ્પપૂજા વગેરેને પ્રથમ ગાથામાં]] કહીને સ્તોત્રપૂજને મૂલકારથી બે ગાથા દ્વારા જણાવે છે.
માચાર્ય :- પ્રિભુના શરીર, આચાર અને ગુણોથી ગર્ભિત, ગંભીર, વિવિધ વર્ણથી સંયુકત, આશય વિશુદ્ધિને જન્માવનાર, સંગપરાયણ, પવિત્ર, પાપગહગર્ભિત, અનેક અર્થવાળા તથા મહાબુદ્ધિશાળીઓએ રચેલા એવા સ્તોત્રો પ્રણિધાનપૂર્વક |१, निर्माता । २. आनन्दय । ३. पुरुषान् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org