Book Title: Shatpurusha Charitam
Author(s): Kshemankar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 12
________________ चरित्रं. LEAS योग्यायोग्यविचारणा ॥ कथं भवेदिति प्रश्ने, सर्व रुच्यते तथा ॥ ९ ॥ धर्माधर्मप्रवाहोऽयं, पुरुषाः प्रभवः (पुरुषप्रभवः) पुरा । तैः समासेवितः पूर्व, परेषां च प्ररूपितः ॥१०॥ अनादिकालमभवा, स्थितिरेषा प्रवर्तते। तेन तेषां विशेषेण, योग्यायोग्यनिरूपणा ॥ ११॥ तथाहि इह तावत्समानेऽपि पुरुषत्वे पूर्वोपार्जितशुभाशुभकर्मपरिणामवशेन चतुप्पुरुषार्थसाधनभेदात् पद्विधाः पुरुषा भवन्ति, तद्यथा-अधमाधमाः १ अधमाः २ विमध्यमाः ३ मध्यमाः ४ उत्तमाः ५ उत्तमोत्तमाश्चेति । तत्र प्रथमे निरूप्यन्ते-येऽधमाधमास्ते प्रणष्ट्रधर्म (कर्म) संज्ञाः, व्यपगतपरलोकाध्यवसायाः, सदैव शुभाध्यवसायरहिताः, अज्ञातशुभलेश्याः, अविदितपञ्चविधविषयमखरसाः, क्रूरकर्मकारिणः, पापाचरणसादराः, अधर्मकर्ममुदिताः, स्फुटितकरचरणशिरोरुहाः, निर्वसनाः, निराश्रयाः, निराधाराः, शीतात ( तता) पझञ्झावाताभिभूताः, वल्लीवितानवेष्टितकुन्तलाः, चर्मपर्णपरिधानाः, गिरिकन्दरनिवासिनः, अदृष्टसंमारमुखविलासाः, सकललोकव्यवहारवर्जिताः, भूभारकारिणः, लब्धेऽपि मनुष्यत्वे पशुदेश्याः । अथ के चैते एवंविधा इति नामतस्तानाह-भिल्लाः पुलिन्दाः नाहलाः बबराः खसिकादयश्च, ते चोत्तमलोकवर्जिताः, तथा चान्ये सौकरिकाः कैवर्ताः लुब्धकाः शौनिकाः चाण्डालादयो नीचकर्मकारिणः, मर्वेऽप्येते कथाश्चित्किञ्चित द्रविणादिकमवाप्य मयं पिबन्ति, मांस भक्षयन्ति, अन्यद्वा किश्चिदकार्यं कुर्वन्ति, Jain Education International For Privata & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52