Book Title: Shatpurusha Charitam
Author(s): Kshemankar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
षटू पुरुष
||१४||
रतिचञ्चला | प्रियेषु क्षणिकं प्रेम, केयं धर्मेऽवधीरणा ? ॥ १ ॥ तत्करोमि स्वकुलोचितं धर्ममिति मारव्यं यज्ञकर्म, प्रवर्त्तितं लक्षभीज्यं, वापीकू पताकादीनि च द्वादश वर्षाणि कारयित्वा लौकिकपुण्यानि स्वपुत्रं श्रीतिलकं कुलभारे संस्थाप्य राजानमनुज्ञाप्य तीर्थानि कर्त्तुमुत्तरस्यां दिशि निरगात्, ततो देशान्तरे परिभ्रमन्नन्यदा क्वाप्यटवीप्रदेशे सान्द्रद्रुमतले पद्मासनस्थं परमब्रह्मपवित्रात्मानं म निकलेवरं कमपि महर्षि मद्राक्षीत् उवाच च अहो अमङ्गलमूर्त्तिरयमिति, केयमस्याशुचिकायस्य धर्मक्रिया ! इति श्रुत्वा सममित्रतृणमणिलेष्टुकाञ्चनः स मुनिस्तदनुग्रहाय प्राह--योः श्रीपते ! न जानासि शुच्यशुचिधर्मस्वरूपं, यतः - शौचमाध्यात्मिकं त्यक्त्वा, भावशुद्धयात्मकं शुभम् । जलादिशौचं यद् दृष्टं, मृढ विस्मापनं हि तत् ॥ १ ॥ ब्रह्मचर्येण सत्येन तपसा संयमेन च । शुद्धिराध्यात्मिक दृष्टा, तीर्थस्तानैर्न ताविकैः ॥ ५ ॥ ब्रह्मचर्ये ध्रुवं ज्ञेयं, परब्रह्मेककारणम् । देहशोभा तदर्थे हि त्यज्यते ब्रह्मचारिभिः ||३|| एवं मुनिनोक्तमाकर्ण्य सोऽचिन्तयत्-कोऽप्ययं ननु तत्रज्ञो यः स्वदेहेऽपि निःस्पृहः । सर्वसङ्गपरित्यागात्सेवते विजनम् वनम् ॥ १ ॥ ततः प्रभृति किश्चिद्भद्रकभ्भावमापन्नः प्रणम्य मुनिं प्राह-- महर्षे ! युक्तमुक्तमान्तरात्मशौचं परं किं करोमि ? न क्षमः स्वकुलाचारं मोक्तुं क्षमस्त्र ममापराधमित्यभिधाय पुरोऽचलत्, ततो द्वादशवर्षैस्तीर्थानि कृत्वा स्वगृहमागतः क्रमेण जरया ग्रस्तः, स्नुषया तद्वचसा पुत्रेण चावज्ञातश्चिन्तितवान् अहो पुरुषस्य महाकष्टकारिणी जरा, यतः - देहो सयणो लच्छी, आणमहत्तं च बुद्धिविभाणं । बुद्धत्ते संपते, छट्टाणा अंति पुरिसस्स ॥ १ ॥ ततः पुत्रे स्नुषायां च संजातकोपो मृत्वा तत्रैव पुरे कस्याप्याभीरस्य गृहे छागोभूत्, ततः
Jain Education International
For Private & Personal Use Only
चरित्रम्
॥१४॥
www.jainelibrary.org

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52