SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ षटू पुरुष ||१४|| रतिचञ्चला | प्रियेषु क्षणिकं प्रेम, केयं धर्मेऽवधीरणा ? ॥ १ ॥ तत्करोमि स्वकुलोचितं धर्ममिति मारव्यं यज्ञकर्म, प्रवर्त्तितं लक्षभीज्यं, वापीकू पताकादीनि च द्वादश वर्षाणि कारयित्वा लौकिकपुण्यानि स्वपुत्रं श्रीतिलकं कुलभारे संस्थाप्य राजानमनुज्ञाप्य तीर्थानि कर्त्तुमुत्तरस्यां दिशि निरगात्, ततो देशान्तरे परिभ्रमन्नन्यदा क्वाप्यटवीप्रदेशे सान्द्रद्रुमतले पद्मासनस्थं परमब्रह्मपवित्रात्मानं म निकलेवरं कमपि महर्षि मद्राक्षीत् उवाच च अहो अमङ्गलमूर्त्तिरयमिति, केयमस्याशुचिकायस्य धर्मक्रिया ! इति श्रुत्वा सममित्रतृणमणिलेष्टुकाञ्चनः स मुनिस्तदनुग्रहाय प्राह--योः श्रीपते ! न जानासि शुच्यशुचिधर्मस्वरूपं, यतः - शौचमाध्यात्मिकं त्यक्त्वा, भावशुद्धयात्मकं शुभम् । जलादिशौचं यद् दृष्टं, मृढ विस्मापनं हि तत् ॥ १ ॥ ब्रह्मचर्येण सत्येन तपसा संयमेन च । शुद्धिराध्यात्मिक दृष्टा, तीर्थस्तानैर्न ताविकैः ॥ ५ ॥ ब्रह्मचर्ये ध्रुवं ज्ञेयं, परब्रह्मेककारणम् । देहशोभा तदर्थे हि त्यज्यते ब्रह्मचारिभिः ||३|| एवं मुनिनोक्तमाकर्ण्य सोऽचिन्तयत्-कोऽप्ययं ननु तत्रज्ञो यः स्वदेहेऽपि निःस्पृहः । सर्वसङ्गपरित्यागात्सेवते विजनम् वनम् ॥ १ ॥ ततः प्रभृति किश्चिद्भद्रकभ्भावमापन्नः प्रणम्य मुनिं प्राह-- महर्षे ! युक्तमुक्तमान्तरात्मशौचं परं किं करोमि ? न क्षमः स्वकुलाचारं मोक्तुं क्षमस्त्र ममापराधमित्यभिधाय पुरोऽचलत्, ततो द्वादशवर्षैस्तीर्थानि कृत्वा स्वगृहमागतः क्रमेण जरया ग्रस्तः, स्नुषया तद्वचसा पुत्रेण चावज्ञातश्चिन्तितवान् अहो पुरुषस्य महाकष्टकारिणी जरा, यतः - देहो सयणो लच्छी, आणमहत्तं च बुद्धिविभाणं । बुद्धत्ते संपते, छट्टाणा अंति पुरिसस्स ॥ १ ॥ ततः पुत्रे स्नुषायां च संजातकोपो मृत्वा तत्रैव पुरे कस्याप्याभीरस्य गृहे छागोभूत्, ततः Jain Education International For Private & Personal Use Only चरित्रम् ॥१४॥ www.jainelibrary.org
SR No.600133
Book TitleShatpurusha Charitam
Original Sutra AuthorN/A
AuthorKshemankar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages52
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy