Book Title: Shatpurusha Charitam
Author(s): Kshemankar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 51
________________ चरित्रम यञ्च भोक्ष्यन्ति, स्वादिष्टं स्वान्तरञ्जकम्॥२॥ अनन्तगुणितं तस्मा-दत्यनंस्वस्वभावजम् ।एकस्मिन् ममये सौख्यं, तरञ्जन्ने निरञ्जनाः॥३॥ अनन्तदर्शनशान-शक्तिसौख्यमयास्ततः । त्रैलोक्यतिलकीभूता-स्तत्र तिष्ठन्ति सर्वदा ॥४॥ तस्मिमेव समयेऽवधिज्ञानेन ज्ञात्वा तेषां निर्वाणसमयं समागच्छन्ति सपरिवाराश्चतुःषष्टिसुरेन्द्राः, कुर्वन्ति गाशीपचन्दनादिसुगन्धिद्रव्यदेहसंस्कार, सककशाश्वतनत्येष्वष्टाहिनक महामहोत्सवं च, अहो आसंसारभ्रमणगभावतारजन्मगृहवासदीक्षाज्ञानोत्पत्तिनिर्वाणगमनादिकं येषां सर्वमप्यलोकिकमतस्ते के भगवन्तः सर्वसंसारिजीवेभ्यः सर्वप्रकाररुत्तमोत्तमाः श्री तीर्थकराः इति षट्पुरुषीविवरणम् ॥ उत्तमोत्तमतया तया नया, विश्वविश्वमुख दायिनो जिनाः । अक्षयाखिलसुखादिमेदुराः , पापुरव्ययपदं महोदयाः ॥ १॥ श्रीमत्तपागणनभोगणवयंसूर्य-श्रीदेवसुन्दरगुरुपवरप्रसादात् । क्षेमकरो गणिवरः स्वपरोपकार-देतोश्चकार पुरुषाश्रपिणं विचारम् ॥२॥ इति श्रीदेवसुन्दरमरिशिष्य पं० क्षेमकरगणिकृतं षट पुरुषीस्वरूपं समाप्तम् ॥ श्रीरस्तु ।। ॥४१॥ Jain Education International For Privata & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 49 50 51 52