Book Title: Shatpurusha Charitam
Author(s): Kshemankar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 49
________________ त्रम् ॥३९॥ मोक्षकबद्धकक्षाः स्वकरणीयदक्षाः क्षमायां विहरन्ति द्रव्यक्षेत्रकालभावप्वप्रतिवद्धाः, सहन्ते यथोत्पमापरीषहोपसर्गान्. यदुक्तं-रागहोसकसाए, इंदियाणि य पंचवि । परीसहे उबसग्गे, नामयंता नमोऽरिहा॥१॥ ततस्त्यक्तसमस्तवाह्याभ्यन्तरपरिग्रहा निर्ग्रन्था भवन्ति.. | यदुक्तं-अहिंसा सर्वजीवानां ततो मैत्रीप्रमोदकारुण्यमाध्यस्थ्यभावः स्थिरीभूते धर्मध्याने शान्तिमार्दवावमुक्त्याद्यालम्बनः शुक्लध्यानारूढाः क्षपकश्रेणिमाश्रित्य कुर्वन्ति ये घातिकर्मचतुष्टयक्षयं, ततो युगपत्सकलद्रव्यपर्यायसाक्षात्कारि समुत्पद्यते येषां केवलज्ञानं केवलदर्शनं च, ततः परं भोः सकर्णाः !आकर्णयन्तु तेषां तीर्थकृतां नामकर्मप्रकृतमहिमानं. यत्र ते पादमवधारयन्ति तत्र योजनं प्रमार्जयन्ति भूमिकां वायुकुमारदेवाः, सिञ्चन्ति सुगन्धिजलेन मेघकुमारदेवाः, कुर्वन्ति पञ्चवर्णसुगन्धपुष्पदृष्टिमृतकुमाराः, ततो मणिरत्नसुवर्णमयं योजनप्रमाणं पीठबन्धं तत्र कुर्वन्ति व्यन्तरदेवाः, तत्र मणिमयकपिशीर्षमण्डितं रत्नमयचतुर्दारं पताकातोरणध्वजसालभब्जिकाविराजितं |माकारं कुर्वन्ति वैमानिकदेवाः, रत्नमयकपिशीर्षशोभितं मुवर्णमयं मध्यप्राकारं चतुर्दारं कुर्वन्ति ज्योतिष्कामराः, सुवर्णमयकपिशीर्षकविभूषितं रूप्यमयं चतुद्वारं बायपाकारं कुर्वन्ति भवनपतिदेवाः, चैत्यद्मरत्नमयपीठदेवच्छन्दकासनादिकमन्यदपि येषां पुण्यप्रभावात कुर्वन्ति कल्याणीभक्तयो देवाः, ततः मुरैः पादन्याससंचार्यमाणनवमुवर्णकमलस्थापितपदन्यासाश्चतुर्विधंदेवनिकायनायकपरिवृताः समागच्छन्ति समवमरणं, तत्र कृततीर्थप्रणामाः सर्वाभिमुख्यतार्थ देवः कुतापररूपत्रयाः पूर्वाभिमुखाः सिंहासने तिष्ठन्नि, ततो यथास्थानं स्थितासु द्वादशसु परिपत्सु योजनगामिन्या सर्वसंदेहापहारिण्या सर्वभाषासंवादिन्या वाण्या कुर्वन्ति ते धर्मदेशनां मोक्षमार्ग Jain Education International For Privata & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52