Book Title: Shatpurusha Charitam
Author(s): Kshemankar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पट् पुरुष
चरित्रम्
॥१
भविष्याम इति दानशीलतपःपरा भवन्ति, दुष्करक्रियां कुर्वन्ति, तीयांनि सेवन्ते, परोपकारं सारं मन्यन्ते, के पुनस्ते ? तानामतः पाह-ब्राह्मणाः, क्षत्रियाः, वणिजः, कौटुम्बिकाः, राजानः, अन्येऽप्येवंविधा इहपरलोकापायदर्शिनः, येऽपि च मोक्षाभिलाषिणः कुमावनिका ज्ञानध्यानतपःकष्टकरा मिथ्यादृष्टयस्तेऽपि परमार्थादर्शनत्वेन विमध्यमाः, ये च सम्यग्दृष्टयः सनिदानाचक्रवादिविभवभोगाभिलापिणस्तेऽपि तथाविधा एव, एते सर्वेऽपि धर्ममपेक्षन्ते, परलोकविरुद्धं परिहरन्ति, सुगतिकुगती मन्यन्ते, पापभीरवः। पठन्ति च-धर्माजन्म कुले शरीरपटुता सौभाग्यमायुर्बलं, धर्मेणैव भवन्ति निर्मलयशोविद्यार्थसंपत्तयः । कान्ताराच महाभयाच्च सततं धर्मः | परित्रायते, धर्मः सम्यगुपासितो भवति हि स्वर्गापवर्गदः॥१॥ पुंसां शिरोमणीयन्ते, धर्मार्जनपरा नराः। आश्रीयन्ते च संपद्भिलगाभिरिव पादपाः ॥२॥ एवंवादिनो विमध्यमा धर्मार्थिनोऽपि तथाविधधर्मवकारं गुरुं विना न सम्यग् धर्मस्वरूपमुपलभन्ते, यतः-धर्मस्य दुर्लभो ज्ञाता, सम्यग्वक्ता ततोऽपि च । श्रोता ततोऽपि श्रद्धावान् , कर्ता कोऽपि ततः सुधीः॥१॥ प्रतिपच्चन्द्रं | सुरभी, नकुलो नकुलीं पयच कलहंसः । चित्रकवल्ली पक्षी, सूक्ष्मं धर्म सुधीर्वेत्ति ॥ २॥ अतस्तथाकर्मलाघवेन भवन्ति केऽपि प्राणिनो धार्थिनः, परं सम्यग्देवगुरुधर्मस्वरूपमविदन्तो यथा तथा प्रवर्तन्ते, न च ते सम्यग्धर्मफलसाधकाः, यथा श्रीपतिमार्थवाहः, त
थाहि-जम्बीपस्य भरते मध्यमखन्ड़े चन्द्रावतीपुर्यो चन्द्रतिलको नृपः, श्रीपतिः सार्थवाहः, श्रीमान् राज्ञः प्रियः सर्वजनमान्यो Mal मिथ्यात्वमूढमतिरक्षातजिनधर्मो धर्मार्थी च, अन्यदा ब्राह्ममुहर्ते प्रबुद्धः सन् स्वचित्तेऽचिन्तयत्-याति कालो गलत्यायुर्विभूति
Jain Education International
For Privata & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52