Book Title: Shatpurusha Charitam
Author(s): Kshemankar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
|
॥२०॥
पट पुरुष र महीयान्महसागगनाणचारी सातिशयज्ञानधारी; तदस्य मुखेन शणोमि जीवाजीवादितत्त्वनिर्णयमिति, ततः सोऽवादीत्-भो धर्मशील !
को भवान् ! कुतः समायातः ?क गन्ता ? कस्य शिष्यश्चेति, स पाह-हे राजन् ! प्रथमाईतीर्थे भरतेश्वरश्चक्रवर्ती साधर्मिकभक्तचाsणुव्रतधारिणां ब्रह्मचारिणां पुरा कशिपुचिन्तामकरोत् , ततस्तेषामाधिक्यं दृष्ट्वा रत्नत्रयपरीक्षापूर्वकं तदुपलक्षणं कनकरत्नमयं यज्ञोपवीतमदात् , ते च ततः सर्वेषां महनीया अभवन् , ततः श्रीभरतान्वयेऽष्टभिस्तथैव परीक्षापूर्व स्वर्णमयं, ततः परमपरै रूप्यमयं याव श्रीअजितजिनपिता, ततः परं सूत्रमयमभूत् , तदनु ते ब्रह्मचारिणो नवमजिनान्तरे साधुन्युच्छेदे सति प्रगते यतिधर्मे केऽपि मिथ्यादृष्टयोऽब्रह्मचारिणो गृहस्था अभूवन् , केऽपि सम्यग्दृष्टयो वैराग्यभाजो ब्रह्मचारिणः, तेषामन्वयेऽहं सिद्धार्थनामा श्रावको महपिकृतसिडपुत्रापरनामा श्रीपरमानन्दकेवलिपार्षे गृहीताणुव्रतो ब्रह्मचारी तच्छिष्यो मेरुगिरौ कृतयात्रः श्रीशत्रुजयं प्रति प्रस्थितो व्योममार्गस्थस्तर सभायां नास्तिकमतानुसारिणं मोहरतिमन्त्रिणं जीवादिभावान् सतोऽपि निनुवानमवलोक्यात्रागतवान् । एतदाकर्ण्य नृपेण चिन्तितम्-अहो भविष्यत्यस्मत्समीहिता जीवादिविचारगोष्ठी, भविष्यति च तच्चनिर्णयः, ततः प्राह नृपो-भो भावधर्मशील ! समादिश जीवादितत्त्वं ? ततः सोऽवादीत्-भो मन्त्रिन् मोहरते ! केयं तब कुगत्यभिलापिणी जीवादिभावापलापधीषणा ? किं नावलोक्यतेऽन्तर्मुखं ? यतः-जं भणसि नत्थि भावा, वयणमिणं अत्यि नत्थि ? जइ अस्थि । एव पदमाहाणी, असओ शुनिसेहए को णु ! ॥ ॥ केणति नत्थि आया !, जेण परुक्खत्ति तव कु
Jain Education International
For Privata & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52