Book Title: Shastra Sandeshmala Part 21
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 372
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। २१२ ॥ ॥ २१३ ॥ ॥ २१४ ॥ ॥ २१५ ॥ ॥ २१६ ॥ ॥ २१७॥ बाधकान्तरमुत्पन्नं यद्यस्यान्विच्छतोऽपरम् । ततो मध्यमबाधेन पूर्वस्यैव प्रमाणता अथानुरूपयत्नेन सम्यगन्वेषणे कृते । मूलाभावान विज्ञानं भवेद्बाधकबाधकम् ततो निरपवादत्वात् तेनैवाद्यं बलीयसा । बाध्यते तेन तस्यैव प्रमाणत्वमपोद्यते एवं परीक्षकज्ञानत्रितयं नातिवर्त्तते । ततश्च जातबाधेन नाशङ्कयं बाधकान्तरम् यद्येवमनवस्थैषा ममाप्येवं न युज्यते । समानन्यायमारूढावावां हन्ताविशेषतः एकार्थमथ भिन्नार्थं प्रमाणत्वावधारकम् । एकार्थमप्रमाणं तु गृहीतग्रहणादपि भिन्नार्थं यदि विज्ञानमन्यदन्यस्य साधकम् । द्विचन्द्रादिधियोप्येवमस्तु तारादिगोचरम् कश्चायं हन्त संवादस्तत्प्राप्यार्थक्रियामतिः । श्रोत्रधीरप्रमाणं स्यादितराभिरसङ्गतेः पूर्वज्ञानममानं किं प्रमाणं केन चोत्तरम् । स्वसन्ततिसमुत्थं वा सन्तानान्तरवर्ति वा न चान्यदीयविज्ञानमसिद्धं साध्यसाधकम्। प्रथमोत्तरयोः स्वस्य चेतसोः किं विशिष्यते उच्यते संशयज्ञानं विपर्यासानुषङ्गि वा । मन्ये न जातु वो ज्ञानं तेनैवमभिधीयते तत्रापूर्वार्थविज्ञानं निश्चितं वदता त्वया । परतो निश्चयेप्यत्र नानवस्थेति साधितम् ॥ २१८ ॥ ॥ २१९ ॥ || २२० ॥ ।। २२१ ॥ ॥ २२२ ॥ ॥ २२३॥ 353 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442