Book Title: Shastra Sandeshmala Part 21
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ११८८॥
|| ११८९ ।।
।। ११९० ॥
।। ११९१॥
॥ ११९२ ॥
|| ११९३॥
विशेषोऽन्त्यः स्मृतो नित्यद्रव्यव्यावृत्तिकारणम् । संबन्धोऽयुतसिद्धानां, समवायः प्रकीर्तितः द्वे प्रमाणे मते चास्य, प्रत्यक्षं लैङ्गिकं तथा । वैशेषिकमतस्यायं, समासार्थः प्रकीर्तितः सांख्या: प्राहुः शिवं गच्छेत्, पञ्चविंशतितत्त्ववित् । सत्त्वं रजस्तमश्चेति, गुणास्तत्र त्रयः स्मृताः प्रसादलाघवाद्वेषासंगप्रसवसंमदाः । सत्त्वकार्याणि संतापस्तम्भोद्वेगा विशोषणम् अपद्वेषश्च भेदश्च, कार्याणि रजसो जगुः । तम:कार्याणि रौद्रत्वं, सादनं दैन्यगौरवे (युग्मम्) प्रकृतिः समतावस्था, प्रोक्तैषां स्यात् ततो महान् । स गुणाष्टकसंपन्नबुद्धितत्त्वाभिधो मतः अहङ्कारो भवत्यस्मात्, स्वप्ने व्याघ्रादिमानकृत् । एकादशेन्द्रियाण्यस्मान्मनोधीकर्मभेदतः त्वजिह्वाघ्राणदृक्श्रोत्राण्याहुर्बुद्धीन्द्रियाणि वै । वाक्पाणिपायूपस्थांहीन्, पञ्च कर्मेन्द्रियाणि च स्पर्शो रसश्च रूपं च, गन्धः शब्दस्तथाऽत्यणुः । स्युस्तन्मात्राणि पञ्चैव, तत एव तमोघनात् तेभ्यश्च पञ्च भूतानि, प्रपञ्चः प्राकृतो ह्ययम् । चतुर्विंशतितत्त्वात्मा, पुमानन्यो निरञ्जनः भोगार्थं प्रकृतेः पुंसां, योगं पङ्वन्धयोरिव । विनोपमानं त्रीण्येव, प्रमाणानि च ते जगुः सांख्यदर्शनसंक्षेपः, प्रोक्तोऽयमथ वर्ण्यते । बौद्धानां दर्शनं प्रोचुादशायतनानि ते
॥ ११९४ ॥
॥ ११९५ ॥
॥ ११९६ ॥
॥ ११९७ ॥
॥ ११९८ ॥
॥ ११९९ ॥
४०८
For Private And Personal Use Only

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442