Book Title: Shastra Sandeshmala Part 21
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 416
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ११५२ ॥ ॥ ११५३ ॥ ॥ ११५४ ।। ॥ ११५५ ॥ ॥ ११५६ ॥ ॥ ११५७ ॥ मीमांसकाभिधं चान्यत्, पुरं प्राज्ञैः प्रदर्शितम् । मीमांसकाश्च गीयन्ते, लोकास्ते येऽत्र संस्थिताः लोकायतमिति प्रोक्तं, पुरमत्रापरं बुधैः । ये वास्तव्या इह ख्याता बार्हस्पत्याश्च ते जनाः तदेतेषु पुरेपूच्चैर्ये लोकाः परिदर्शिताः । ते मिथ्यादर्शनस्याज्ञां, पालयन्ति विशेषतः विमर्शः प्राह षड् यानि, श्रूयन्ते लोकवार्तया । दर्शनानि किमेतानि, तान्युक्तानि त्वया मम विमर्शः प्राह तान्येव, पञ्च मीमांसकं विना। पुराण्येतानि षट्स्वेतन्नेष्टं मीमांसकं पुरम् जैम(मि)निर्वेदरक्षार्थं, दोषजातोद्दिधीर्षया। चकार येन मीमांसां, दृष्ट्वा तीथिकविप्लवम् तस्मादेतानि पञ्चैव, पुरं मीमांसकं विना । लोकैर्दर्शनसंख्यायां, गण्यन्ते नात्र संशयः प्रकर्षः प्राह यद्येवं, ततः षष्ठं क्ववर्तते । विमर्शः प्राह यदिदं, विवेकाद्रौ निरीक्ष्यते अप्रमत्तत्वशिखरं, तुझं तत्र निवेशितम् । पुरं यद् विततं षष्ठं, तज्जैनमभिधीयते अत्र स्थितानां लोकानां, न मिथ्यादर्शनाभिधः । बाधकः स्यात् प्रकृत्यैव महामोहमहत्तमः प्रकर्षः प्राह बाध्यन्ते, यदनेन स्थिता अधः । शिखरस्था न बाध्यन्ते, को हेतुस्तत्र मातुल ! विमर्शः प्राह पुर्यस्ति, महामोहादिभूभुजाम् । मुक्तिर्भुक्तेरतिकान्ता, निर्द्वन्द्वानन्दशालिनी ॥ ११५८॥ || ११५९ ॥ ॥ ११६० ॥ ॥ ११६१ ॥ ॥११६२ ॥ ॥ ११६३ ॥ ४०७ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442