Book Title: Shastra Sandeshmala Part 21
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १३३२ ॥
॥ १३३३ ।।
॥ १३३४ ॥
।। १३३५ ॥
॥ १३३६ ॥
॥१३३७ ।।
पञ्चाश्रवाद् विरमणं, पञ्चेन्द्रियविनिग्रहः । कषायदण्डविरती, भेदाः सप्तदशेत्यमू: सप्तमः सत्यनामायमस्यादेशेन साधवः । हितं मितं च भाषन्ते, जगदाह्लादकृद्वचः अष्टमोऽत्र नृपः शौचाभिधानो मुनिपुङ्गवाः । द्रव्यभावात्मिकां शुद्धिमस्यादेशाद् वितन्वते यड्डिम्भरूपं नवममाकिञ्चन्यं मनोहरम् । मुनिभिर्मोचयत्येतद्, बाह्यान्तरपरिग्रहम् दिव्यौदारिककामानां, त्रिविधानां त्रिधा शमात् । दशमं डिम्भरूपं च, ब्रह्म कारयति स्फुटम् तदेष दशभिर्युक्तो, यतिधर्मोऽत्र मानुषैः । शोभां बिभति सुषमाकाल: कल्पद्रुमैरिव सद्भावसारताऽऽख्येयं, भार्याऽस्य गुणरत्नभूः । म्रियतेऽस्यां मृतायां हि, जीवन्त्यामेष जीवति निशाशशाङ्कयोर्यद्वद्, गौरीगिरीशयोर्यथा । दाम्पत्यमनयोस्तद्वनिर्मिथ्यस्नेहनिर्भरम् जिनैः किमप्यनुज्ञातं, निषिद्धं वा न सर्वथा। भाव्यं सद्भावसारेणेत्येषाऽऽज्ञा पारमेश्वरी चारित्रधर्मस्तदिमां, विरहय्य न तिष्ठति । स्नेहलः क्षणमप्येकं, प्राणेभ्योऽप्यधिकां प्रियाम् द्वितीयो दृश्यते यश्च, जितमारः कुमारकः । गृहिधर्माभिधोऽस्यैव, कनिष्ठोऽयं सहोदर: अयं च कुरुते वत्स, युक्तो द्वादशमानुषैः । निवृत्तं स्थूलहिंसायाः स्थूलालीकाच्च मानवम्
॥ १३३८॥
॥ १३३९ ।।
॥ १३४०॥
॥ १३४१ ॥
॥ १३४२॥
॥ १३४३ ॥
४१४
For Private And Personal Use Only

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442