Book Title: Shastra Sandeshmala Part 21
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 424
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org स्थूलचौर्यान्निवृत्तं च, परदारपराङ्मुखम् । कृतेच्छापरिमाणं च परित्यक्तनिशाऽशनम् दिग्व्रते दृढता भाजं युक्तभोगोपभोगकम् । अनर्थदण्डविरतं, श्रेष्ठसामायिकाशयम् देशावकाशिकरतं, धृतपौषधनिश्चयम् । पूतस्वान्तं तथाऽत्यर्थमतिथेः संविभागत: (च. क.) कर्तुं यो यावदेवालं, तस्य तावद् ददत् फलम् । असौ न विमुखं कञ्चिद् वालयत्यमलाशयः एषा च दृश्यतेऽस्यैव भार्या सद्गुणरक्तता । स्वगेहशुद्धिकृन्नित्यमतिथिप्रतिपत्तिकृत् भार्यया सहितावेतौ, लोकानां भूपतेः सुतौ । प्रकृत्यैवोपकर्तारौ, सूर्याचन्द्रमसाविव सम्यग्दर्शननामाऽयं पित्रा च परिपालकः । महत्तमोऽनयोर्योग्यचक्रे वकेतराशयः एतौ नानेन रहितौ, दृश्येते च कदाचन । अर्थप्रकाशनपरे, नयने तेजसा यथा एतौ प्रवर्धयत्येष, वत्सलो निकटस्थितः । सप्ततत्त्वशुचिश्रद्धासुधापानैर्निरन्तरम् शमसंवेगनिर्वेदकृपाऽऽस्तिक्यैर्युतं जनम् । मैत्रीप्रमोदकारुण्यमाध्यस्थैश्च करोत्ययम् प्रस्थापने रसोऽमुष्य मुक्तौ प्रतिजनं महान् । सदोल्लसत्यविश्रान्तदेशनाडिण्डिमध्वनिः चन्द्रोज्ज्वलरुचियैषा, दृश्यते च मनोहरा । सुदृष्टिनाम्नीमस्यैव, पत्नीं तां विद्धि विश्रुताम् ૪૧૫ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ॥ १३४४ ॥ ॥१३४५ ॥ ॥ १३४६ ॥ ॥। १३४७ ॥ ॥। १३४८ ॥ ।। १३४९ ।। ॥ १३५० ॥ ।। १३५१ ॥ ॥ १३५२ ॥ ॥ १३५३ ।। ।। १३५४ ॥ ।। १३५५ ।।

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442