Book Title: Shastra Sandeshmala Part 21
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यश:प्रश्रयसौजन्यधैर्यादिगजगजितैः । नैपुण्यवाग्मितामेधोल्लासादिहयहेषितैः
॥ १३८० ॥ मनस्विभावदाक्षिण्यस्थिरत्वादिपदातिभिः । मनोहरं लसल्लेश्यारक्तपीतसितध्वजैः (त्रिभिविशेषकम्) ॥ १३८१ ॥ प्रकर्षो मुदितो दृष्ट्वा, तदुवाच स्वमातुलम् । पूरिता मे त्वयोत्कण्ठा, सर्वं दर्शयता ह्यदः ॥ १३८२ ॥ तथाऽपि वस्तुमिच्छामि, कतिचिद् वासरानिह । जैने पुरे धियो वृद्ध्यै, वासोऽयं मे भविष्यति ॥ १३८३ ॥ एवमस्त्वित्यथ प्रोक्ते, मातुलेन स्थितावुभौ । तत्र मासद्वयं यावद् वसन्तो लङ्घितस्ततः
॥ १३८४ ।। इतश्च मानवावासे, भीष्मो ग्रीष्म उपस्थितः । तृषितो य: सरोवृन्दं, निपीयापि न तृप्यति
॥ १३८५ ॥ असितगगनलोष्टकोष्ठमध्ये, खरपवनेन तपओलोहकारः। स्फुटगिरिकुसुमश्रमोदबिन्दुस्तिमिररिपुं धमतीव लोहगोलम्
॥ १३८६ ॥ शिशिरकिसलयप्रणीतशय्या, करपरिवीजिततालवृन्तराजिः । कथमपि जनता तदोरुतापं, लघयति हर्म्यतले स्थिति विधाय
॥ १३८७॥ विदलितसितमल्लिकावितानैविकसितपाटलपाटलासमूहैः । वनमसित(ते)तरैः शिरीषपुष्पैबहुरुचितां विवृणोत्यहो तदानीम्
॥ १३८८ ॥
૪૧૬
For Private And Personal Use Only

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442